Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 440
________________ त्रिषष्टिशलाकापुरुषचरिते I२३॥ षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् । प्रम्लानं वदनं चञ्चूः श्लथोपात्तमृणालिका । ग्रीवा च शिथिला पक्षावुत्पतनासहाविमौ ।। १६५ ।। शून्यं चेदमवस्थानमवस्थां विरहाकुलाम् । आख्याति व्यक्तमेतस्या अनाख्यातामपि स्वयम् ।। १६६ ॥ कलाविदीदृशी कस्मादियत्कालं सखि त्वया । नानीतेयं गृहे क्षिप्त्वा रहस्यमिव किं धृता ।। १६७ ॥ वीरभद्रोऽप्युवाचैवं गुरूणामभिशङ्कया । नानीताहमिह स्वस्रा नान्यत् किमपि कारणम् ।। १६८ ।। अनङ्गसुन्दरीत्यूचेतः परं प्रत्यहं त्वया । आगन्तव्यं सह स्वस्रा किं चास्या नाम सुन्दरि ।। १६९ ॥ वीरभद्रो झगित्यूचे नाम वीरमतीति मे । भूयोऽप्यूचे राजपुत्र्या वेत्स्यन्या अपि किं कलाः ।। १७० ॥ ऊचे विनयवत्यैवमचिराज्ज्ञास्यसि स्वयम् । न प्रत्ययः पराख्यातेष्वत्यद्भुतगुणेष्वपि ।। १७१ ।। एवमस्त्वित्युदित्वाथ मुदितानङ्गसुन्दरी । सत्कृत्य विनयवतीं विससर्ज तदन्विताम् ।। १७२ ।। वीरभद्रो वधूवेषं गृहे मुक्त्वा ययौ पुनः । आपणे श्रेष्ठिनः पार्श्वे पितृभक्तिनियन्त्रितः ।। १७३ ।। श्रेष्ठी तमूचे सस्नेहं वत्स क्वास्था इयच्चिरम् । इह त्वां पृच्छतां नृणां निर्विण्णोऽस्म्युत्तरं ददत् ।। १७४ ।। बभाषे वीरभद्रोऽपि तातोद्याने गतोऽस्म्यहम् । श्रेष्ठ्यप्यभाषतैवं च यद्येवं शोभनं कृतम् ।। १७५ ।। तथैवाह्नि द्वितीयेऽपि तत्र सोऽगात् कलानिधिः । अनङ्गसुन्दरी वीणां वादयन्तीं ददर्श च ।। १७६ ॥ इत्यूचे वीरभद्रस्तां तन्त्रीरेषा न सुस्वरा । मनुष्यवालोऽमुष्यां यदनुस्यूतोऽस्ति सुन्दरि ।। १७७ ।। कथं नु ज्ञायत इति तयोक्तः सोऽब्रवीदिदम् । ज्ञायते त्वदुपक्रान्तरागनिर्वाहदर्शनात् ।। १७८ ॥ ततश्च सार्पयामास वीरभद्रस्य वल्लकीम् । तद्विदुत्कीलयामास तत्तन्त्रीं सोऽपि तत्क्षणात् ।। १७९ ॥ १ उड्डयनेऽक्षमौ । वीरभद्रवृत्तान्तः । IR३॥

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524