Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 465
________________ त्रिषष्टि शलाका पुरुषचरिते ॥४८॥ राज्ये निवेशयांचक्रे तस्य प्रकृतिपुरुषैः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः ।। ७० ।। तस्याभवच्च महिषी तारा तारविलोचना । बुभुजाते च तौ भोगानविघ्नममराविव ॥ ७१ ॥ भूपालराजजीवोऽपि स्वमायुः परिपूर्य सः । महाशुक्रात् परिच्युत्य ताराकुक्षाववातरत् ।। ७२ ।। कृतवीर्योऽन्यदा मातुर्मुखाच्छ्रुत्वा पितुः कथाम् । आदिष्टाहिरिवागत्य जमदग्निममारयत् ।। ७३ ।। रामः पितृवधक्रुद्धो द्राग्गत्वा हस्तिनापुरे । अमारयत्कृतवीर्यं किं यमस्य देवीयसि ॥ ७४ ॥ जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ।। ७५ ।। रामाक्रान्तपुराद्राज्ञी कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेणीवागमत्तापसाश्रमम् ॥ ७६ ॥ कृपाधनैर्भूर्गृहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात् परशुरामतः ।। ७७ ।।। चतुर्दशमहास्वप्नसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमिं सुखेनाभूत् सुभूमो नामतस्ततः ।। ७८ ।। क्षत्रियो यत्र यत्रासीत्तत्र तत्राप्यदीप्यत । पर्शुः परशुरामस्य कोपाग्निरिव मूर्तिमान् ॥ ७९ ॥ रामोऽगादन्यदा तत्राश्रमे पर्शुश्च सोऽज्वलत् । क्षत्रं चासूचयद्धूम इव धूर्मध्वजं तदा ॥ ८० ॥ किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः । इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे ।। ८१ ।। रामोऽप्यमर्षान्निःक्षत्रां संप्तकृत्वो वसुंधराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः ।। ८२ ।। क्षुण्णक्षत्रियदंष्ट्राभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् ॥ ८३ ॥ रामः पप्रच्छ नैमित्तानन्येद्युर्मे कुतो वधः । सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् ॥ ८४ ॥ १ अतिदूरे । २ गर्भिणी । ३ मृगीव । ४ भुवि गृहं भूगृहं गुहा इति यावत् तस्यान्तः । ५ अग्निम् । ६ सप्त वारान् । षष्ठं पर्व चतुर्थः सर्गः सुभूमचक्रवर्त्ति चरितम् । सप्तकृत्वः पृथिव्याः अक्षत्रियायाः करणम् । ॥ ४८ ॥

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524