Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 484
________________ षष्ठं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥७॥ षष्ठः सर्गः श्रीमलिनाथजिनचरितम् । मल्लिरप्यालपत्तात प्रत्येकं गुढपूरुषैः । तुभ्यं दास्यामि मल्लीमित्युक्त्वा षडपि बोधय ।। १८० ॥ तस्या मम प्रतिमायाः पुरोपवरकेषु ते । क्रमेण सायमानेयाः प्रच्छन्नाः श्वेतवाससा ।। १८१ ।। तथैव विदधे राजा तेऽप्याजग्मुस्तथैव हि । कपाटजालकैर्मल्लीप्रतिमां ददृशुश्च ताम् ।। १८२ ।। अहो पुण्यैरियं प्रापि सुरूपा चारुलोचना । इति मल्लीधिया दध्युस्तेऽनुरागेण पार्थिवाः ।। १८३ ।। प्रतिमापृष्ठद्वारेण प्राविशत्तत्र मल्ल्यपि । प्रतिमान्तरिता तालुपिधानाब्जमपानयत् ।। १८४ ।। प्रक्षिप्तकथिकाहारगन्धः सद्यश्च निर्ययौ । शकृद्गन्ध इवासह्यः प्रेसह्य घ्राणबाधकः ।। १८५ ॥ कपाटजालैस्तदपवरकेष्वपि सोऽविशत् । षण्णामपि नरेन्द्राणां दारयन्निव नासिकाः ।। १८६ ।। पिधाय नासिकां तेऽपि वाससा गन्धतस्ततः । पराङ्मुखा अजायन्त वैरिभ्य इव कातराः ।। १८७ ॥ भोः किं पराङ्मुखा यूयमिति मल्ल्याभिभाषिताः । अमुं न शक्नुमः सोढुं दुर्गन्धमिति तेऽभ्यधुः ।। १८८ ।। मल्लिस्तान् प्रत्युवाचैवं सौवर्णी प्रतिमा ह्यसौ । अत्राप्यन्वहमाहारक्षेपाद्गन्धोऽयमीदृशः ।। १८९ ॥ किं ब्रूमस्तस्य यद्गर्भे पित्रोः शुक्रासगुद्भवम् । पश्चाच्च कललीभूतं मांसपेशीत्वभाक् ततः ।। १९० ॥ ततो मातकृताहारनिर्यासरसपोषितम् । जरायुनरकमग्नं वपुर्विण्मूत्रवासितम् ।। १९१ ।।युग्मम् ।। एवंविधसमुत्पत्तेर्विष्टाकोष्ठस्य वर्मणः । रसासृग्मांसमेदोऽस्थिमज्जाशुक्राञ्चितात्मनः ॥ १९२ ।। १शकृद्विष्य तद्वद्गन्धो यस्य सः । २ हठात् । ३ वीर्यशोणिताम्यामुद्भूतम् । ४ कललं गर्भवेष्टनचर्म तद्वद्भूतम् । ५ मांसपेशी। गर्भस्थप्राण्यवयवविशेषः । ६ निर्यासरसः सत्त्वरसः । ७ जरायुर्गर्भाशयः । ८ देहस्य । सुवर्णप्रतिमाद्वारापनयनम् । & ॥७॥

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524