Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 486
________________ त्रिषष्टिशलाकापुरुषचरिते ॥६९॥ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् । नारीकुचवदुष्णत्वात् पथिकैः शीतपीडितैः । आचम्यमानकूपाम्बु सेव्यमानवटद्रुमम् ।। २०७ ॥ हेमन्तलक्ष्मीहसितैरिव कुन्दैर्विकस्वरैः । शोभमानं तदुद्यानं प्रविवेश जगद्गुरुः ।। २०८ ॥ ॥चतुर्भिः कलापकम् ।। बहिःपरिच्छदार्हाणां नृणां दशशतैः समम् । स्त्रीणामप्यन्तरपरीवारार्हाणां त्रिभिः शतैः ।। २०९ ।। मार्गस्य शुक्लैकादश्यां पूर्वाह्ने भेऽश्वयुज्यथ । यथाविधि प्रभुमल्लिः प्रवव्राज कृताष्टमः ।। २१० ॥ मनःपर्ययमुत्पेदे मल्लेर्ज्ञानं तदैव हि । तस्मिन्नेव दिनेऽशोकमूले केवलमप्यभूत् ।।२११ ॥ शक्रादिभिश्च समवसरणं विदधेऽमरैः । धनुःशतत्रयोत्तुङ्गचैत्यपादपशोभितम् ।।२१२ ।। तत्र प्रविश्य प्रारद्वारा मल्लिस्तं चैत्यपादपम् । प्रदक्षिणीकृत्य नमस्तीर्थायेत्यभिधाय च ।। २१३ ।। प्राक्सिंहासनमध्यास्त प्राङ्मुखोऽथान्यदिक्ष्वपि । सद्यस्तत्प्रतिरूपाणि विचक्रुर्व्यन्तरामराः ॥ २१४ ॥ अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । कुम्भस्ते षट् च राजानोऽनुशक्रं समुपाविशन् ।।२१५ ॥ देवराजकुम्भराजौ नमस्कृत्य जगद्गुरुम् । श्रद्धाधौतान्तरात्मानाविति तुष्टुवतुर्मुदा ।। २१६ ॥ दिष्ट्या प्रणमतां भाले त्वत्पादनखरश्मयः । भवन्ति भवभीतानां रक्षातिलकसन्निभाः ।। २१७ ।। आजन्म ब्रह्मचारित्वाद्दीक्षा ते जन्मतोऽपि हि । व्रतपर्यायदेशीयं मन्ये जन्मापि तत्तव ।। २१८ ॥ किं देवसद्मना तेन न यत्र तव दर्शनम् । इदं तु भूतलं श्रेयस्त्वदालोकपवित्रितम् ।। २१९ ॥ नृदेवतिर्यग्जन्तूनां भीतानां भववैरितः । दुर्गं त्वदीयं समवसरणं शरणं प्रभो ॥२२० । कुकर्माण्यन्यकर्माणि त्वत्पादप्रणति विना । यैः कर्माण्येव सूयन्ते संसारस्थितिकारणम् ।। २२१ ॥ प्रव्रज्या कैवल्यं च । ॥६९॥

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524