Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 489
________________ त्रिषष्टिशलाकापुरुषचरिते ॥७२॥ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् । RAHARASHRSHAHARA मल्लिपादौ नमस्कृत्य देवराजादयः सुराः । कुम्भराजादयो भूपाः स्थानं निजनिजं ययुः ॥ २५० ॥ तत्तीर्थजन्मा कुबेरयक्ष इन्द्रायुधधुतिः । चतुर्मुखो गजरथश्चतुर्भिर्दक्षिणैर्भुजैः ।। २५१ ।। वरदेन पशुशूलभृयामभयदेन च । वामैर्बीजपूरशक्तिमुद्गरकाक्षसूत्रिभिः ।। २५२ ॥ तत्तीर्थभूश्च वैरोट्या कृष्णाङ्गी कमलासना । भान्ती दोभ्या दक्षिणाभ्यां वरदेनाक्षसूत्रिणा ।। २५३ ॥ मातुलिङ्गशक्तिभृद्भ्यां वामदोर्त्यां च शोभिता । श्रीमल्लेरर्हतोऽभूतामुभे शासनदेवते ।। २५४ ।। ततः स्थानादथान्यत्र ग्रामाकरपुरादिषु । भव्यलोकावबोधाय विजहार महीं प्रभुः ।। २५५ ।। चत्वारिंशत्सहस्राणि श्रमणानां महात्मनाम् । सहस्राः पञ्चपञ्चाशदार्यिकाणां तपोजुषाम् ।। २५६ ।। चतुर्दशपूर्वभृतां साष्टषष्टिश्च षट्शती । अवधिज्ञानयुक्तानां द्वाविंशतिशती पुनः ।। २५७ ।। मनोविदां सप्तदशशती पञ्चाशदन्विता । केवलज्ञानधराणां द्वाविंशतिशती पुनः ।। २५८ ।। जातवैक्रियलब्धीनां त्रिसहस्री शतोनिता । उत्पन्नवादलब्धीनां चतुर्दश शतानि च ।। २५९ ॥ श्रावकाणां लक्षमेकं सत्र्यशीतिसहस्रकम् । श्राविकाणां त्रिलक्षी च ससप्ततिसहस्रिका ।। २६० ॥ संवत्सरशतन्यूनां पञ्चपञ्चाशतं प्रभोः । समासहस्रान् विहर्तुः परिवारो ह्यसावभूत् ।। २६१ ।। सम्मेतादि मल्लिरगाच्चक्रे चानशनं समम् । साध्वीनामथ साधूनां पञ्चशत्या पृथक् पृथक् ॥ २६२ ।। मासान्ते फाल्गुनशुद्धदशम्यां याम्यभे विभुः । निर्वाणमासदत् सार्धं साध्वीभिः साधुभिश्च तैः ।। २६३ ।। परिवारः । ॥७२॥ १ इन्द्रधनुरिव कान्तिर्यस्य सः । २ शोभमाना ।३ शतेन न्यूना।

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524