Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 496
________________ त्रिषष्टिशलाकापुरुषचरिते ॥७९॥ षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् । कौतुकालोकनोत्केन राजलोकेन तत्क्षणम् । निर्माल्यमाल्यसंवीतः सोऽवेष्ट्यत पिशाचकी ।। ६९ ।। उत्तालतालिकानादमिश्रकोलाहलध्वनिम् । तस्यानुगामिपौराणां शुश्राव सुमुखो नृपः ।।७० ।। किमेतदिति जिज्ञासुः सहैव वनमालया । निजवेश्माङ्गणेऽभ्यागात् सुमुखः पृथिवीपतिः ॥७१ ॥ तं तथा विकृताकारं कश्मलं शून्यमानसम् । आक्रुश्यमानं लोकेन तप्यमानं च रेणुभिः ।। ७२ ।। वनमाले वनमाले क्वासीत्यादि प्रलापिनम् । निरीक्ष्य वनमाला च नृपतिश्चेति दध्यतुः ।।७३ ।। कमैतनिघृणमहो अस्माभिः सौनिकैरिव । दुःशीलैर्विदधे हन्त विश्वस्तो ह्येष वञ्चितः ।।७४ ॥ मन्ये नातः परं पापं किञ्चिदन्यत् प्रकृष्यते । प्रकृष्टपापिनां मध्ये धौरेया वयमेव हि ॥७५ ॥ विश्वासघातकेभ्योऽपि निकृष्ट वयमास्महे । इत्थं जीवन्मृतमिमं यद्वराकमकृष्महि ।।७६ ॥ धिग्धिग्विषयलाम्पट्यमविवेकपटीयसाम् । नरकेऽपि हि न स्थानं पाप्मनानेन नः खलु ।। ७७ ॥ धन्यास्ते हि महात्मानः सर्वदा ये जितेन्द्रियाः । जहुवैषयिकं सौख्यं विपाके दुःखकारणम् ।। ७८ ।। जिनधर्ममहोरात्रं ये शृण्वन्त्याचरन्ति च । वन्द्यास्ते स्वविवेकेन ये च विश्वोपकारिणः ।। ७९ ।। इति स्वं निन्दतोर्धर्मप्रसक्तांश्चभिनन्दतोः । तयोः पपात खाद्विद्युत् प्राणानपजहार च ।। ८०॥ मिथः स्नेहपरीणामाच्छुभध्यानाच्च तौ मृतौ । उत्पेदाते हरिवर्षे वर्षे मिथुनरूपिणी ।। ८१ ॥ हरिश्च हरिणी चेति पितृभ्यां कल्पिताभिधौ । प्राग्जन्मवद्दम्पती ताववियुक्तौ दिवानिशम् ।। ८२ ।। १ उत्क उत्कण्ठितः । २ संवीतः सहितः । ३ मलिनम् । ४ चाण्डालैरिव । ५ अधिकं भवति । ६ अग्रेसराः । ७ अधमाः । ८ तत्यजुः । ९ परिणामे । हरिवंशोत्पतिः । I७९॥


Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524