________________
त्रिषष्टिशलाकापुरुषचरिते
॥७९॥
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
कौतुकालोकनोत्केन राजलोकेन तत्क्षणम् । निर्माल्यमाल्यसंवीतः सोऽवेष्ट्यत पिशाचकी ।। ६९ ।। उत्तालतालिकानादमिश्रकोलाहलध्वनिम् । तस्यानुगामिपौराणां शुश्राव सुमुखो नृपः ।।७० ।। किमेतदिति जिज्ञासुः सहैव वनमालया । निजवेश्माङ्गणेऽभ्यागात् सुमुखः पृथिवीपतिः ॥७१ ॥ तं तथा विकृताकारं कश्मलं शून्यमानसम् । आक्रुश्यमानं लोकेन तप्यमानं च रेणुभिः ।। ७२ ।। वनमाले वनमाले क्वासीत्यादि प्रलापिनम् । निरीक्ष्य वनमाला च नृपतिश्चेति दध्यतुः ।।७३ ।। कमैतनिघृणमहो अस्माभिः सौनिकैरिव । दुःशीलैर्विदधे हन्त विश्वस्तो ह्येष वञ्चितः ।।७४ ॥ मन्ये नातः परं पापं किञ्चिदन्यत् प्रकृष्यते । प्रकृष्टपापिनां मध्ये धौरेया वयमेव हि ॥७५ ॥ विश्वासघातकेभ्योऽपि निकृष्ट वयमास्महे । इत्थं जीवन्मृतमिमं यद्वराकमकृष्महि ।।७६ ॥ धिग्धिग्विषयलाम्पट्यमविवेकपटीयसाम् । नरकेऽपि हि न स्थानं पाप्मनानेन नः खलु ।। ७७ ॥ धन्यास्ते हि महात्मानः सर्वदा ये जितेन्द्रियाः । जहुवैषयिकं सौख्यं विपाके दुःखकारणम् ।। ७८ ।। जिनधर्ममहोरात्रं ये शृण्वन्त्याचरन्ति च । वन्द्यास्ते स्वविवेकेन ये च विश्वोपकारिणः ।। ७९ ।। इति स्वं निन्दतोर्धर्मप्रसक्तांश्चभिनन्दतोः । तयोः पपात खाद्विद्युत् प्राणानपजहार च ।। ८०॥ मिथः स्नेहपरीणामाच्छुभध्यानाच्च तौ मृतौ । उत्पेदाते हरिवर्षे वर्षे मिथुनरूपिणी ।। ८१ ॥ हरिश्च हरिणी चेति पितृभ्यां कल्पिताभिधौ । प्राग्जन्मवद्दम्पती ताववियुक्तौ दिवानिशम् ।। ८२ ।। १ उत्क उत्कण्ठितः । २ संवीतः सहितः । ३ मलिनम् । ४ चाण्डालैरिव । ५ अधिकं भवति । ६ अग्रेसराः । ७ अधमाः । ८ तत्यजुः । ९ परिणामे ।
हरिवंशोत्पतिः ।
I७९॥