________________
त्रिषष्टिशलाका
पुरुषचरिते
॥७८॥
राज्ञा सह प्रगे योगं करिष्यामि तवानघे । ज्वलन्तं ज्वलनमथ प्रवेक्ष्याम्याश्वसिह्यपि ।। ५५ ।। आश्वास्यैवं वनमालां सा परिव्राजिकाव्रजत् । सिद्धप्रायं नृपार्थं तं चाख्यत्सुमतिमन्त्रिणे ।। ५६ ।। सोऽप्यमात्यस्तदाख्यायाश्वासयत् पृथिवीपतिम् । प्रायेण प्रेयसीप्राप्तिप्रत्याशापि हि शर्मणे ।। ५७ ।। प्रातर्गत्वान्त्रेयिकापि वनमालामवोचत । मया कृतोऽस्ति ते प्रेमाभिमुखः सुमुखो नृपः ।। ५८ ॥ उत्तिष्ठ वत्से गच्छावस्तदद्य नृपसद्मनि । रमस्व राजपत्नीव राज्ञा सह यथासुखम् ।। ५९ ।। वनमाला तया सार्धं नृपवेश्म ययौ ततः । अवरोधे सा निदधे सानुरागेण भूभुजा ।। ६० । क्रीडोद्यानसरिद्वापीशैलादिषु तया सह । विहरन्नन्वभूद्भोगसुखं सुमुखभूपतिः ।। ६१ ।। इतो वीरकुविन्दोऽपि वियुक्तो वनमालया । भूताविष्ट इवोन्मत्त इव मत्त इवाभ्रमत् ।। ६२ ।। धूलीधूसरसर्वाङ्गो जीर्णकर्पटखण्डवत् । विसंस्थूलशिरः केशो दीर्घरोमनखावलिः ।। ६३ ।। उत्तालतुमुलैः पौरदारकैः परिवारितः । वनमाले वनमाले क्वासि मे देहि दर्शनम् ॥ ६४ ॥ निरागसं किमत्याक्षीरेकमेकपदेऽपि माम् । अथवा नेर्मणात्याक्षीः सुचिरं युज्यते न तत् ॥ ६५ ॥ रूपलुब्धेन वा रक्षोयक्षविद्याधरादिना । केनाप्यपहृतासि त्वं धिग्धिङ्मां गतभाग्यकम् ।। ६६ । इत्यादि प्रलपन् पुर्यां चत्वरेषु त्रिकेषु च । वराको रङ्कवत् कालमतिवाहयति स्म सः ।। ६७ ।। ॥ पञ्चभिः कुलकम् ॥ तथैव प्रलपन्नुच्चैरन्येद्यू राजवेश्मनः । प्रययावङ्गणे डिम्भगणैः कपिवदावृतः ॥ ६८ ॥ १ प्रातःकाले । २ अग्निम् । ३ अन्तःपुरमध्ये । ४ जीर्णवस्त्रखण्डवत् । ५ हास्येन ।
षष्ठं पर्व सप्तमः सर्गः श्रीमुनि - सुव्रतस्वामिचरितम् ।
हरि
वंशोत्पतिः ।
119211