________________
त्रिषष्टिशलाकापुरुषचरिते
॥७७॥
HARRAHA
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
उवाच सचिवोऽप्येवं सा हि ज्ञाता मया प्रभो । भार्या वीरकुविन्दस्य वनमालेति नामतः ।। ३९ ॥ एष सम्पादयिष्यामि शीघ्रमेव तव प्रभो । परं सहपरीवारो यातु स्वामी स्वमालयम् ॥ ४० ॥ इत्युक्तः शिबिकारूढो विमना रोगवानिव । चिन्तयन् वनमालां तां स्वं स्थानमगमन्नृपः ।। ४१ ।। आत्रेयिकां नाम परिव्राजिकां सुमतिस्ततः । प्राहिणोद्वनमालायै विचित्रोपायपण्डिताम् ।। ४२ ।। जगाम वनमालाया वेश्मात्रेय्यपि तत्क्षणम् । तया च वन्दिता साशीःपूर्वमेवमवोचत ।। ४३ ।। वत्से कुतोऽद्य विच्छाया पद्मिनीव हिमागमे । दिवा शशिकलाकारौ कुतो गण्डौ च पाण्डुरौ ॥ ४४ ॥ शून्यप्रक्षिप्तदृष्टिश्च ध्यायन्ती किं नु तिष्ठसि । आख्यातपूर्विणी सर्वं दुःखमाख्यासि किं न हि ॥ ४५ ॥ निःश्वस्य वनमालापि ललापैवं कृताञ्जलिः । दुष्प्रापार्थकतामात्मीयां कथां कथयामि काम् ।। ४६ ॥ क्व रासभी वाजिराज उच्चैरुच्चैःश्रवाः क्व च । क्व च शृगालयुवतिः क्व केशरिकिशोरकः ।। ४७ ।। क्व वा वराकी चटका पक्षिणामधिपः क्व च । क्वाहं कुविन्दी तादृक् क्व दुर्लभः प्राणवल्लभः ॥ ४८ ॥ अप्येतेषां भवेद्योगः कथञ्चन विधेर्वशात् । हीनजातेर्मम तु तत्सङ्गः स्वप्नेऽप्यसम्भवी ।। ४९ ।। आत्रेयिकाप्येवमूचेऽर्थं ते सम्पादयाम्यहम् । असाधनीयं पुण्यानां मन्त्रतन्त्रविदां च किम् ॥ ५० ॥ प्रत्यूचे वनमालैवं मयाद्य पथि वीक्षितः । नृपतिः कुअरारूढः प्रत्यक्ष इव मन्मथः ।। ५१ ।। अपि चन्दननिःस्यन्दसोदरात्तस्य दर्शनात् । देहे मदीये प्रोद्भूत प्रभूतो मान्मथो ज्वरः ।। ५२ ॥ ज्वरहृत्तक्षकचूडामणिवत्तस्य सङ्गमः । दुर्लभो हि वराक्या मे किं की भगवत्यतः ।। ५३ ।। आत्रेय्यप्यभ्यधादेवं देवं दैत्यं विधुं रविम् । विद्याधरं वा कर्षामि मन्त्रैरत्र तु का कथा ।। ५४ ।।
हरिवंशोत्पतिः ।
ASHBHASHARE
७७॥