________________
त्रिषष्टिशलाकापुरुषचरिते
॥७६।।
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
इयं कस्यापि शापेन दिवो भ्रष्टा किमप्सराः । वनलक्ष्मीः स्वयमथ वसन्तश्रीरथ स्वयम् ।। २४ ।। रतिः स्मरवियुक्ता वा नागी वा भुवमागता । स्त्रीरत्नं वा किमप्येतत्कौतुकाद्वेधसा कृतम् ।। २५ ।। एवं विचिन्तयन् राजा तत्रैवाभ्रमबद्नम् । प्रतीक्षमाणः कमपीवाग्रतः प्रययौ न हि ॥ २६ ॥ स्वामिन् सर्वं बलं प्राप्तं किमद्यापि विलम्ब्यते । भावं जिज्ञासुरित्यूचे सचिवस्तं नरेश्वरम् ।। २७ ।। अमात्यवचसा चेतः संस्थाप्य कथमप्यथ । जगाम यमुनोद्वर्त महोद्यानं महीपतिः ।। २८ ।। न हि चूतवने मक्षु मञ्जरीपुञ्जमञ्जुले । नाप्यशोकवने नृत्यन्नवपल्लवशालिनि ।। २९ ।। न वा बकुलषण्डेऽपि मधुव्रतकुलाकुले । तालवृन्तायतदले कदलीविपिनेऽपि न ।। ३०॥ मधुश्रीकर्णिकाभूते कर्णिकारवने न च । नान्यत्रापि रतिं प्राप तया हृतमना नृपः ।। ३१ ।। सचिवः सुमति म तं तथोद्विग्नमानसम् । एवमज्ञ इवोवाच भावज्ञोऽपि महीपतिम् ।। ३२ ।। विकारो मानस वाथ भयं वा शत्रुसंभवम् । मोहाय क्षितिपालानां तृतीयं संभवेन्न हि ।। ३३ ।। न तावद्विक्रमाक्रान्तजगतस्ते द्विषद्भयम् । मनोविकारो यद्यस्ति यद्यगोप्यश्च तद्वद ।।३४ ।। राजापि व्याजहारैवं त्वया निर्व्याजशक्तिना । वशीकृता विद्विषन्तः साक्षिणौ तु भुजौ मम ।।३५ ।। तवात्मनो विकारेऽपि प्रतीकारकरः खलु । इति मे निश्चयस्तेन कथयामि कथं न ते ।।३६ ॥ इहाधुनैवापतता मया पथि निरीक्षिता । सर्वस्त्रीरूपसर्वस्वलुण्टाकी काचिदङ्गना ।। ३७ ।। मदीयमप्यपहृतं तया चेतः स्मरातुरम् । तेन ताम्यामि सचिव कुरूपायमिहोचितम् ।।३८ ।। १ नागकन्या । २ मञ्जरीणां समूहेन सुन्दरे । ३ आगच्छता । ४ लुण्टतीत्येवं शीला लुण्टाकी।
हरिवंशोत्पतिः ।