________________
त्रिषष्टिशलाका
पुरुषचरिते ॥७५ ॥
अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृन्नाम कर्म सः । अर्जयित्वा विपद्याभूत्प्राणते त्रिदशोत्तमः ॥ ११ ॥ इतश्व्युत्वा ह्यसावर्हन् हरिवंशेऽभवत् किल । तस्य वंशस्य तेनेयमुत्पत्तिः पूर्वमुच्यते ।। १२ ।। तथाहि जम्बूद्वीपस्यामुष्य क्षेत्रेऽत्र भारते । कौशाम्बी नाम पुर्यस्ति वत्समण्डलमण्डनम् ।। १३ ।। तस्यां यशोभिः श्रीखण्डद्रवैरिव सुगन्धिभिः । मण्डिताशामुखो जज्ञे सुमुखो नाम भूपतिः ।। १४ । नृपैरलंघ्या तस्याज्ञा जाङ्गुलीव भुजङ्गमैः । ऐश्वर्यमद्वितीयं च वज्रपाणेरिवाभवत् ।। १५ ।। सामकृत् सामयोग्येषु पितेव मृदुलाशयः । दानकृद्दानसाध्येषु पैरेतेष्विव मान्त्रिकः ।। १६ ।। अयस्कान्त इवायःसु मायाविषु विभेदकृत् । स दण्डभृच्च दण्ड्येषु दण्डपाणिरिवापरः ।। १७ ॥ अपरेद्युर्वसन्तर्तौ प्राप्ते मदनबान्धवे । चचाल गन्तुमुद्याने रन्तुकामः स भूपतिः ॥ १८ ॥ स गच्छन् कुञ्जरारूढो वनमालामभिख्यया । भार्यां वीरकुविन्दस्यारविन्दाक्षीमुदैक्षत ॥ १९ ॥ पीनोन्नतकुचद्वन्द्वां मृणालमृदुदोर्लताम् । वज्राल्पमध्यां पुलिनविपुलश्रोणिमण्डलाम् ॥ २० ॥ सरिदावर्तगंभीरनाभिं करिकरोरुकाम् । नव्यकोकनदाताम्रपाणिपादां नतभ्रुवम् ।। २१ ।। श्रोण्या विस्रंसि बिभ्राणां वासो वामेन पाणिना । कुचस्थलादुत्तरीयं निपतद्दक्षिणेन तु ॥ २२ ॥ तां पश्यन्नवनीभर्ता कामार्तिविधुरः क्षणात् । मन्दीकृतद्विपगतिर्मनस्येवमचिन्तयत् ॥ २३ ॥
१ वत्सदेशस्य भूषणम् । २ भूषितं दिशां मुखं येन सः । ३ शवेषु । ४ यमः । ५ नदीतीरवद्विस्तीर्णं कटीतटं यस्याः सा । ६ हस्तिनः शुण्डादण्डवदुरू यस्याः सा । ७ कटीतटात्पतद्वस्त्रं वामेन पाणिना कुचस्थलाच्च पतद्वस्त्रं दक्षिणेन हस्तेन धारयन्तीम् ।
षष्ठं पर्व सप्तमः सर्गः श्रीमुनि - सुव्रतस्वामिचरितम् ।
हरि
वंशोत्पतिः ।
॥७५॥