________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥८०॥
कल्पद्रुमैर्दशविधैः सम्पादितसमीहितौ । सुखेन तस्थतुस्तत्र विलसन्तौ सुराविव ॥ ८३ ॥ विद्युत्पातेन हतयोर्वनमालानरेन्द्रयोः । चक्रे बालतपो वीरकुविन्दोऽपि सुदुस्तपम् ॥ ८४ ॥ मृत्वा च कल्पे सौधर्मे सोऽभूत् किल्बिषिकः सुरः । प्राग्जन्मावधिनापश्यत् स्वं तथा हरिणीहरी ॥ ८५ ॥ रोषारुणेक्षणः सद्यो भृकुटीभङ्गभीषणः । सञ्जिहीर्षुर्यम इव हरिवर्षं जगाम सः ।। ८६ ।। एवं च स सुरो दध्याविहावध्याविमौ खलु । मृतौ च यास्यतः स्वर्गेऽवश्यं क्षेत्रप्रभावतः ।। ८७ । निर्बन्धेन दुर्गतीनामकालेऽपि मृतिप्रदें । नयाम्यन्यत्र तत्स्थाने पूर्वजन्मद्विषाविमौ ॥ ८८ ॥ इति निश्चित्य स सुरस्तौ कल्पतरुभिः सह । अनैषीदत्र भरते चम्पापुर्यामुभावपि ॥ ८९ ॥ तत्र पुर्यां तदानीं च नृप इक्ष्वाकुवंशजः । चन्द्रकीर्तिर्नामधेयेनापुत्रः पञ्चतां ययौ ॥ ९० ॥ ततः प्रकृतयस्तस्य राज्यार्हमपरं नरम् । प्रावर्तन्तोऽभितोऽन्वेष्टुमात्मानमिव योगिनः ।। ९१ ।। सोऽथ देवो देवऋद्ध्या सर्वान् विस्मापयञ्जनान् । तेजःपुञ्ज इवाकाशस्थित एवमवोचत ।। ९२ ॥ भो भोः सचिवसामन्तप्रमुखा राजचिन्तकाः । असूनुर्वो मृतो राजा यूयं राजेच्छवस्ततः ।। ९३ ।। युष्मत्पुण्यैरिवाद्यैव प्रेरितोऽहमिहानयम् । हरिवर्षाद्धरिं नाम राज्यार्हं युग्मरूपिणम् ।। ९४ ।। अस्येयं हरिणी नाम सहजा सहचारिणी । आहारार्थमनयोश्चानीताः कल्पद्रुमा अमी ॥ ९५ ॥ श्रीवत्समत्स्यकलशकुलिशाङ्कुशलाञ्छितः । तदयं वो भवत्वद्य राजा राजीवलोचनः ।। ९६ ।। कल्पद्रुमफलाविद्धं पिंशितं पशुपक्षिणाम् । मद्यं च देयमाहारेऽनयोर्मिथुनरूपिणोः ।। ९७ ।। १ सहोत्पन्ना । २ पत्नी । ३ राजीवं कमलम् । ४ मांसम् ।
षष्ठं पर्व
सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
हरिवंशोत्पतिः ।
॥ ८० ॥