________________
त्रिषष्टिशलाकापुरुषचरिते
॥८ ॥
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
एवमस्त्विति ते प्रोच्य गीर्वाणं तं प्रणम्य च । मिथुनं रथमारोप्य तं निन्यू राजवेश्मनि ।। ९८ ॥ ब्रह्ममागधगन्धर्वमङ्गलोद्गीतिपूर्वकम् । हरिं राज्येऽभिषिषिचुस्ते सामन्तादयस्तदा ॥ ९९ ॥ स्वशक्त्या च तयोर्देवो इस्वमायुः स्थितेर्व्यधात् । धनुःशतं च तुत्वे कृतार्थोऽथ तिरोदधे ।। १०० ॥ शीतलस्वामिनस्तीर्थे हरी राजा बभूव सः । ततः प्रभृति तन्नाम्ना हरिवंशोऽभवद्भुवि ।। १०१ ।। असाधयद्धरी राजा वसुधामब्धिमेखलाम् । राज्ञां कन्याः श्रिय इवोपयेमेऽनेकशश्च सः ।। १०२ ।। हरेहरिण्यामजनि गते काले कियत्यपि । पृथुलोरःस्थलः पृथ्वीपतिरित्याख्यया सुतः ।। १०३ ॥ हरिः समं हरिण्या च विपेदेऽर्जितपातकः । पृथ्वीपतिस्तयोः सूनुः पृथ्वीपतिरथाभवत् ।। १०४ ॥ पालयित्वा चिरं राज्यं राज्ये सूनुं महागिरिम् । सोऽभिषिच्य तपस्तप्त्वा त्रिदिवं प्रत्यपद्यत ।। १०५ ।। महागिरिनरेन्द्रोऽपि क्रमाद्धिमगिरि सुतम् । राज्ये न्यस्य तपस्तप्त्वा जगाम पदमव्ययम् ।। १०६ ।। ततो हिमगिरिज्येष्ठं सुतं वसुगिरि निजे । राज्येऽभिषिच्य प्रावाजीदवाजीच्चापुनर्भवम् ।। १०७ ।। सुतं गिरिं नाम वसुगिरिरप्यात्मनः पदे । निधायात्तपरिव्रज्यः क्षीणकर्मा ययौ शिवम् ।। १०८ ।। सुतं मित्रगिरि राज्ये निधाय गिरिरप्यथ । परिव्रज्यामुपादत्त स्वर्गलोकं जगाम च ।। १०९ ।। एवं क्रमेणासङ्ख्याता हरिवंशेऽभवन्नृपाः । तपसा केऽपि निर्वाणं ययुः स्वर्ग च केचन ।। ११०॥ इतश्चात्रैव भरतक्षेत्रे मगधमण्डनम् । नाम्ना पुरं राजगृहमस्ति स्वस्तिकवद्भुवः ॥१११ ॥ । तत्र यूनां रतभ्रथ हारमुक्ताकणोत्कराः । वर्धिनीभिरपोह्यन्ते प्रातः प्रतिनिकेतनम् ॥ ११२ ॥ १ आत्ता गृहीता परिव्रज्या येन सः । २ रतेन सुरतेन भ्रयः पतिताः । ३ सम्मार्जनकारिणीभिः ।
हरिवंशोत्पतिः ।
॥८१॥