________________
त्रिषष्टि
शलाका
पुरुषचरितं
॥८२ ॥
गृहे गृहे तत्र चाश्वा दयादानं गृहे गृहे । गृहे गृहे चित्रशाला रङ्गशाला गृहे गृहे ।। ११३ ।। मरालानामिव सरः पुष्पमाल्यमिवालिनाम् । महामुनीनामपि तत्सेवनीयमभूत् सदा ।। ११४ ॥ बभूव हरिवंशस्य मुक्तामणिरिवामलः । तत्रोग्रतेजसा मित्रः सुमित्रो नाम भूपतिः ।। ११५ ।। विनेता दुर्विनीतानां परिणेता जयश्रियाम् । उन्नेता निजवंशस्य स नेता सर्वभूभुजाम् ।। ११६ ।। नवमो दिग्गज इव कुलाचल इवाष्टमः । द्वितीय इव शेषाहिर्महीभारं बभार सः ।। ११७ ।। औदार्यधैर्यगाम्भीर्यादयो ये ये गुणाः किल । ते ते तस्मिन्नदृश्यन्त ज्ञेयानीव जिनागमे ॥ ११८ ॥ पद्मावतीत्यभिधया पद्मादेवी हरेरिव । सधर्मचारिणी तस्याभवद्भूतलपावनी ॥ ११९॥ तयाशेषस्य जगतो नयनानन्दहेतुना । अलञ्चक्रे नरेन्द्र श्रीधरिवोडुपलेखया ॥ १२० ॥ गुणैः शीलादिभिस्तैस्तैः स्वकीयैः सा सुगन्धिभिः । राज्ञोऽध्यवासयच्चित्तं गन्धंचूर्णैरिवांशुकम् ॥ १२१ ॥ तस्या गुणगणं तारागणं दिव इवोच्चकैः । न सङ्ख्यातुमलंभूष्णुरभूदपि पतिर्गिराम् ॥ १२२ ॥ भोगांस्तया सहाभुङ्क्त सुमित्रः पृथिवीपतिः । पृथिव्येवानुरागेण जङ्गमीभावमाप्तया ।। १२३ । इतश्च प्राणते कल्पे सुरश्रेष्ठसुरोऽपि सः । सुखसागरनिर्मग्नो निजमायुरपूरयत् ।। १२४ ।। च्युत्वा श्रावणराकायां श्रवणस्थे निशाकरे । पद्मावतीमहादेव्याः कुक्षाववततार सः ।। १२५ ॥ चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान् । सुखसुप्ता निशाशेषे तदा देवी ददर्श सा ।। १२६ ।। १ हंसानामिव । २ सूर्यः । ३ ज्ञेयवस्तूनि । ४ चन्द्ररेखया । ५ जङ्गमत्वं प्राप्तया ।
षष्ठं पर्व
सप्तमः सर्गः श्रीमुनि - सुव्रतस्वाभिचरितम् ।
गर्भावतारः ।
॥८२॥