________________
त्रिषष्टिशलाकापुरुषचरिते
॥८३॥
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
ज्येष्ठस्य कृष्णाष्टम्यां भे श्रवणे कूर्मलाञ्छनम् । तमालश्यामलच्छायं समयेऽसूत सा सुतम् ।। १२७ ॥ विहिते दिक्कुमारीभिः सूतिकर्मणि भक्तितः । अर्हन् स विंशतितमो निन्ये मेरौ बिडौजसा ॥ १२८ ॥ शक्रोत्सङ्गनिषण्णस्य त्रिषष्टीन्द्रैर्जगद्गुरोः । जन्माभिषेको विदधे पावनैस्तीर्थवारिभिः ।। १२९ ।। ईशानाङ्कनिषण्णस्य शक्रोऽपि जगदीशितुः । स्नात्रपूजादिकं कृत्वा स्तोतुमित्युपचक्रमे ॥ १३०॥ अद्यावसर्पिणीकालसरोवरसरोरुह । दिष्ट्या प्राप्तोऽसि भगवन्नस्माभिर्धमरैश्चिरात् ।।१३१ ।। अजायत तव स्तोत्राद्ध्यानात् पूजादिकादपि । वाङ्मनोवपुषां श्रेयः फलमद्यैव देव मे ॥ १३२ ।। यथा यथा नाथ भक्तिर्गुरुर्भवति मे त्वयि । लघूभवन्ति कर्माणि प्राक्तनानि तथा तथा ।। १३३ ।। स्वामिन्नविरतानां नः स्याज्जन्मैतन्निरर्थकम् । यदि त्वदर्शनं न स्यादिदं पुण्यनिबन्धनम् ।। १३४ ।। तवाङ्गस्पर्शनस्तोत्रनिर्माल्याघ्राणदर्शनैः । गुणगीताकर्णनैश्च कृतार्थानीन्द्रियाणि नः ।। १३५ ।। मेरुमौलिरयं भाति नीलरत्नत्विषा त्वया । प्रावृषेण्याम्बुदेनेव नयनानन्ददायिना ।। १३६ ॥ स्थितो भरतवर्षेऽपि सर्वगः प्रतिभासि नः । यत्र तत्र स्थितानां यद्भवस्यतिच्छिदे स्मृतः ।।१३७ ।। अस्तु च्यवनकालेऽपि त्वत्पादस्मरणं मम । यथा प्राग्जन्मसंस्कारात्तदेव स्याद्भवान्तरे ।। १३८ । एवं तं विंशमर्हन्तं स्तुत्वादाय च वज्रभृत् । नीत्वा पद्मावतीदेवीपार्श्वेऽमुञ्चद्यथास्थिति ।। १३९ ।। १ अवसर्पिणीकाल एव सरोवरस्तस्मिन् कमलसमान । २ प्रावृषि वर्षाकाले भवः प्रावृषेण्यः स चासौ मेघश्च तेन । ३ सर्वत्र स्थितः ।
जन्मादि ।
||८३॥