________________
त्रिषष्टि
शलाका
पुरुषचरितं ॥ ८४ ॥
चक्रे जन्मोत्सवं सूनोः सुमित्रोऽपि नृपः प्रगे । कारामोक्षैरर्थदानाद्यैश्च लोकम्पृणीभवन् ॥ १४० ॥ अस्मिन् गर्भस्थिते माता मुनिवत्सुव्रताभवत् । मुनिसुव्रत इत्याख्यां तेनास्य विदधे पिता ॥ १४१ ॥ अज्ञाननाटितं बाल्यक्रीडया नाटयञ्जने । ज्ञानत्रयपवित्रात्मा क्रमेण ववृधे प्रभुः ।। १४२ ॥ सम्प्राप्तयौवनः स्वामी विंशधन्वसमुन्नतिः । प्रभावतीप्रभृतिका राजपुत्रीरुपायत ।। १४३ ।। मुनिसुव्रतनाथस्य सुव्रतो नाम नन्दनः । जज्ञे प्रभावतीदेव्यां प्राच्यामिव निशाकरः ।। १४४ ॥ अर्धाष्टमेषु वर्षाणां सहस्रेषु गतेष्वथ । पित्राध्यारोपितं राज्यभारं प्रभुरुपाददे ।। १४५ ।। क्ष्मां पालयन् पञ्चदशाब्दसहस्रीमलङ्घयत् । प्रक्षीणं भोगकर्मेति प्रभुर्ज्ञानाद्विवेद च ।। १४६ ।। तीर्थं प्रवर्तय स्वामिन्निति लोकान्तिकामरैः । विज्ञप्तो वार्षिकं दानं ददौ च परमेश्वरः ।। १४७ ।। क्षत्रव्रतैकद्रविणं न्यायाम्भोजमधुव्रतम् । राज्ये न्यवेशयत् पुत्रं सुव्रतं मुनिसुव्रतः ।। १४८ ।। कृतनिष्क्रमणो देवैः सुव्रतेन च भूभुजा । सहस्रवाह्यां शिबिकां सोऽध्यष्ठादपराजिताम् ।। १४९ । माकन्दैर्नव्येमुकुलप्रोद्भेदाद्दन्तुरैरिव । उद्गच्छत्पल्लवतया जिह्वालैरिव शोभितम् ।। १५० ।। इतस्ततो मरुत्कीर्णजीर्णपर्णतया मुहुः । मर्मरैराह्वयदिवागामिनीं मधुसम्पदम् ।। १५१ ।। दुर्वारां सिन्दुवाराणामीक्षितुं कुसुमश्रियम् । असहैरिव विर्मदीभूय कुन्दैर्निषेवितम् ॥ १५२ ॥
१ लोकं जगत्प्रीणाति प्रीणयतीति लोकम्पृणस्ततश्च्विः । २ नवीनमुकुलोद्गमात्सदन्तैरिव माकन्दैराम्रवृक्षैः शोभितम् । ३ उद्यन्नवपल्लवतया स जिह्वैरिवाम्रैः शोभितम् । ४ सिन्दुवारो वृक्षविशेषः लोके 'नगोड' इति प्रसिद्धः । ५ मदरहितैर्भूत्वा ।
षष्ठं पर्व सप्तमः सर्गः श्रीमुनि - सुव्रतस्वामिचरितम् ।
राज्या
भिषेकः ।
॥ ८४ ॥