________________
त्रिषष्टिशलाकापुरुषचरिते
॥८५॥
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
उद्यद्दमनकामोदप्रमोदि शिशिरर्द्धिकम् । ययौ नीलगुहां नामोद्यानं त्रिजगदीश्वरः ।। १५३ ।।
॥चतुर्भिः कलापकम् ।। फाल्गुनश्वेतद्वादश्यां श्रवणे पश्चिमेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ।। १५४ ॥ द्वितीयेऽह्नि राजगृहे ब्रह्मदत्तनृपौकसि । अपारयत् पायसेन भगवान्मुनिसुव्रतः ॥ १५५ ।। अमरैर्वसुधारादिपञ्चकं तत्र निर्ममे । रत्नपीठं स्वामिपादस्थाने ब्रह्मनृपेण तु ।। १५६ ।। निःसङ्गो निर्ममः सर्वान सहमानः परीषहान् । ततो मासानेकादश छद्मस्थो व्यहरत्प्रभुः ॥ १५७ ॥ विहरनाययौ नीलगुहोद्यानं पुनः प्रभुः । तस्थौ च चम्पकतरोरधस्तात्प्रतिमाधरः ।। १५८ ।। फाल्गुनकृष्णद्वादश्यां श्रवणस्थे निशाकरे । घातिकर्मक्षयात्तत्रोत्पेदे केवलमीशितुः ।। १५९ ॥ शक्रादिभिश्च समवसरणं विदधेऽमरैः । चत्वारिंशेष्वासशतद्वयोच्चाशोकपादपम् ।। १६० ।। तत्र प्रविश्य चैत्यद्रोः स्वामी कृत्वा प्रदक्षिणाम् । नमस्तीर्थायेत्युक्त्वा प्राक्सिंहासन उपाविशत् ।। १६१ ॥ व्यन्तरास्तत्प्रतिच्छन्दानन्यदिक्ष्वपि चक्रिरे । तस्थिवांश्च यथास्थानं श्रीमान् सङ्घश्चतुर्विधः ।। १६२ ।। स्वामिनं समवसृतं तदा ज्ञात्वा च सुव्रतः । एत्य नत्वा स्वामिपादाननुशक्रमुपाविशत् ॥१६३ ।। भूयोऽपि स्वामिनं नत्वा ललाटघटिताञ्जली । भक्तिगर्भा स्तुतिमिमां चक्राते शक्रसुव्रतौ ।। १६४ ।। त्वत्पाददर्शनस्यैव प्रभावोऽयं जगत्पते । यत्त्वगुणान् वर्णयितुं मादृशोऽपि प्रगल्भते ।। १६५ ॥ १ विकसद्दमनकपुष्पाणां गन्धेनानन्ददायि । २ शिशिरस्य समृद्धिर्यस्मिस्तत् । ३ इष्वासो धनुः ।
प्रव्रज्या कैवल्यं च ।
||८५॥