________________
षष्ठं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥८६॥
सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
देशनासमये पुण्यां तव गां परमेश्वर । वन्दामहे श्रुतस्कन्धवत्सप्रसविनीमिह ॥ १६६ ॥ त्वद्गुणग्रहणात् सद्यो भवन्ति गुणिनो जनाः । स्निग्धद्रव्यस्य योगाद्धि स्निग्धीभवति भाजनम् ।। १६७ ।। ये हि त्यक्तान्यकर्माणः शृण्वन्ति तव देशनाम् । त्यक्तप्राक्तनकर्माणस्ते भवन्ति क्षणादपि ॥ १६८ ॥ त्वन्नामरक्षामन्त्रेण संवर्मितमिदं जगत् । अंहे:पिशाचै वातः परं देव ग्रसिष्यते ।। १६९ ॥ कस्यापि न भयं नाथ त्वयि विश्वाभयप्रदे । स्वस्थानयायिनो मे तु त्वद्वियोगभवं भयम् ।। १७० ।। अपि शाश्वतवैरान्धा बहिरङ्गा न केवलम् । शाम्यन्ति तेऽन्तिके स्वामिन्नन्तरङ्गा अपि द्विषः ।। १७१ ।। ऐहिकामुष्मिकाभीष्टदानकामगवी प्रभवो । त्वन्नामस्मृतिरेवास्तु यत्र तत्र स्थितस्य मे ॥ १७२ ।। शक्रसुव्रतयोरेवं स्तुत्वा विरतयोः सतोः । स्वामी विश्वावबोधाय विदधे धर्मदेशनाम् ।। १७३ ।। क्षारोदादिव संसारादसारात् सारमुत्तमम् । उपाददीत सद्रत्नमिव धर्म महामतिः ॥ १७४ ।। संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । शान्तिर्दिवमृजुता मुक्तिश्च दशधा स तु ।। १७५ ।। निरीहो निजदेहेऽपि स्वस्मिन्नपि हि निर्ममः । समाशयो नमस्कुर्वत्यपकुर्वति चानिशम् ॥ १७६ ॥ नितान्तमीश्वरः सोढ़मुपसर्गपरीषहान । मैत्र्यादिभिर्भावनाभिर्नित्यं भावितमानसः ।। १७७ ।। क्षमावान् विनयी दान्तः श्रद्धालुर्गुरुशासने । जात्यादिगुणसम्पन्नो यतिधर्माय कल्पे ।। १७८ ॥ १ श्रुतस्कन्ध एव वत्सस्तज्जनयित्रीं गाम् वाणी च ।२ पापान्येव पिशाचास्तैः ।३ क्रोधादयोऽन्तरङ्गाः शत्रवः। ४ इहलोकपरलोकयोरिच्छितदाने कामधेनुसमाना । ५ क्षारसमुद्रात् । ६ गृहीयात् । ७ परिग्रहराहित्यम् । ८ इच्छारहितः । ९ समचित्तः ।
देशनाः ।
||८६॥