________________
त्रिषष्टिशलाका
पुरुषचरिते
॥८७॥
सम्यक्त्वमूलानि पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि धेर्मोऽयं गृहमेधिनाम् ।। १७९ ।। न्यायसम्पन्नविभवः शिष्टाचारप्रशंसकः । कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः ।। १८० ॥ पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्णवादी न क्वापि राजादिषु विशेषतः ।। १८१ ।। अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥ १८२ ॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥ १८३ ।। व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ।। १८४ ।। अजीर्णे भोजन त्यागी काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ।। १८५ ।। यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् । सदानभिनिविष्टश्च पक्षपाती गुणेषु च ॥ १८६ ॥ अदेशाकालयोश्चर्यां त्यजञ्जानन् बलाबलम् । वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः ।। १८७ ॥ दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः परोपकृतिकर्मठः ॥ १८८ ॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते ॥ १८९ ॥ संसारेऽस्मिन्मनुष्येण चैतन्यफलमिच्छता । सेव्यः श्रावकधर्मोऽपि यतिधर्माक्षमेण तु ।। १९० ।। श्रुत्वामुं देशनां भर्तुर्बहवः प्राव्रजञ्जनाः । श्रावक्यभूवन्नेके च न मोघा देशनार्हताम् ॥ १९१ ॥ इन्द्रादयो गणधराः स्वामिनोऽष्टादशाभवन् । देशनाविरते नाथे चकारेन्द्रोऽपि देशनाम् ।। १९२ ।।
१ सामायिकदेशावकाशिकपौषधातिथिसंविभागरूपाणि । २ व्रतानि गृहमेधिनाम् इति पाठान्तरम् । ३ प्रतिपत्तिर्दानं गौरवं वा । ४ अनाग्रही । ५ श्राद्धधर्मवन्तोऽभवन् । ६ विफला ।
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
देशना ।
॥८७॥