________________
त्रिषष्टिशलाकापुरुषचरिते
||८८॥
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
देशनाविरते तत्राप्यभिवन्द्य जिनेश्वरम् । स्वं स्वं स्थानं ययुः सर्वे वज्रभृत्सुव्रतादयः ।। १९३ ॥ तत्तीर्थजन्मा वरुणयक्षस्त्र्यक्षश्चतुर्मुखः । श्वेतो जटी वृषरथश्चतुर्भिर्दक्षिणैर्भुजैः ।। १९४ ।। मातुलिङ्गगदाबाणशक्तिभृद्भिस्तथापरैः । नकुलाक्षधनुःपशुधारिभिः परिशोभितः ।। १९५ ।। तथोत्पन्ना नरदत्ता गौरी भद्रासनस्थिता । भान्ती दक्षिणबाहुभ्यां वरदेनाक्षसूत्रिणा ॥ १९६ ।। समातुलिङ्गशूलाभ्यां वामदोभ्या॑ च शोभिता । सुव्रतस्वामिनोऽभूतामुभे शासनदेवते ॥ १९७ ॥ ताभ्यामधिष्ठिताभ्यर्णः पृथिवीं विहस्न् प्रभुः । अन्यदा समवासार्षीद्धृगुकच्छे महापुरे ।। १९८ ॥ तत्र राजा जितशत्रुर्जात्यमारुह्य वाजिनम् । प्रभुं वन्दितुमभ्यागादथ शुश्राव देशनाम् ।। १९९ ।। रोमाञ्चिताङ्गो निस्पन्द उत्कर्णः स्वामिदेशनाम् । अश्रौषीत्तुरगः सोऽपि जितशत्रुमहीपतेः ।। २०० ।। पप्रच्छ समये चैवं गणभृत्परमेश्वरम् । स्वामिन् प्रपेदे समवसरणे धर्ममत्र कः ॥२०१ ॥ स्वाम्यप्यूचे धर्ममत्र न कोऽपि प्रत्यपद्यत । जितशत्रुनरेन्द्रस्य विनैकं जात्यवाजिनम् ।। २०२ ।। सविस्मयो जितशत्रुरप्यपृच्छज्जगद्गुरुम् । कोऽयमश्वो विश्वनाथ यो धर्म प्रत्यपधत ॥२०३ ।। आचख्यौ भगवानेवं पद्मिनीषण्डपत्तने । पुरासीच्छ्रावक श्रेष्ठी जिनधर्मोऽभिधानतः ॥ २०४ ॥ मित्रं सागरदत्तोऽस्य समस्तनगराग्रणीः । भद्रकत्वात् समं तेन ययौ चैत्येषु सोऽन्वहम् ॥ २०५ ।। साधुभ्यः सोऽन्यदाश्रौषीयोऽर्हबिम्बानि कारयेत् । संसारमथनं सोऽन्यभवे धर्ममवाप्नुयात् ।। २०६ ।। श्रुत्वा सागरदत्तस्तत् सौवर्ण बिम्बमार्हतम् । कारयित्वा महाऋद्ध्या साधुभिः प्रत्यतिष्ठपत् ।। २०७ ।। १ त्रिनेत्रः । २ गौरागी । ३ निश्चलः ।
अश्वप्रतिबोधः ।
||८८॥