________________
त्रिषष्टिशलाकापुरुषचरिते ।।८९॥
SAH
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
नगरस्य बहिस्तस्य तेनासीत् कारितं पुरा । शिवायतनमुत्तुङ्गं सोऽगात्तत्रोत्तरायणे ।। २०८ ।। तत्र प्राक्संचितस्त्यानसर्पिस्कुम्भाः शिवार्चकैः । क्रष्टुमारेभिरे सर्पिःकवलाय कृतत्वरैः ।। २०९ ।। अधस्तेषां घटानां च पिण्डीभूयोपैदेहिकाः । लग्ना बभूवुर्भूयस्यो निपेतुस्ताश्च वर्मनि ।।२१० ॥ संचरद्भिः पूजकैश्च चूर्यमाणाः समीक्ष्य ताः । सागरः कृपया वस्त्रेणापनेतुं प्रचक्रमे ॥२११ ॥ किं श्वेतभिक्षुभिररे शिक्षितोऽसीति जल्पता । ततस्ताः पूजकेनैकेनाङ्ग्रिघातेन चूर्णिताः ।। २१२ ॥ श्रेष्ठी सागरदत्तोऽपि विलक्षीभूय तत्क्षणम् । तदा तदाचार्यमुखं तच्छिक्षार्थमुदक्षत ॥२१३ ॥ उपेक्षमाणे तत्पापं तस्मिन्नपि हि सागरः । एवं विचिन्तयामास धिगहो निघृणा अमी ॥ २१४ ।। गुरुबुद्ध्या कथममी पूज्यन्ते दारुणाशयाः । आत्मानं यजमानं च दुर्गतौ पातयन्ति ये ॥२१५ ।। विचिन्त्येत्युपरोधाच्च कृत्वा तत्कर्म सागरः । अनासादितसम्यक्त्वो दानशीलस्वभावतः ।। २१६ ॥ महारंभार्जितधनत्राणनिष्ठो विपद्य सः । जात्यस्तवाश्वोऽयमभूत्तबोधायाहमागमम् ।। २१७ ।। प्राग्जन्मकारितजिनप्रतिमायाः प्रभावतः । धर्मोपदेशं नः श्रुत्वा संबुद्धोऽयं क्षणादपि ।। २१८ ।। एवं भगवताख्याते स्तूयमानो जनैर्मुहुः । स्वैरचारी कृतः सोऽश्वः क्षमयित्वा क्षमाभुजा ॥२१९ ॥ ततः प्रभृति तल्लोके प्रख्यातमतिपावनम् । तीर्थमश्वावबोधाख्यं भृगुकच्छमभूत्पुरम् ।। २२० ॥ देशनां पारयित्वा तु भुवनोपचिकीः प्रभुः । विहरन् समवासार्षीदन्यदा हस्तिनापुरे ।। २२१ ॥ १ स्त्यानं शीनम् घनीभूतमित्यर्थः । २ सर्पिःकवलाय घृतभक्षणायेत्यर्थः । ३ उपदेहिकाः कीटविशेषाः उघेही इति लोके प्रसिद्धः । ४ निर्दयाः । ५ आग्रहात् पूजकाचार्यस्येति शेषः । ६ पूजादिकं कार्यम् । ७ महारंभेण लब्धस्य धनस्य रक्षणे निष्ठा यस्य सः । ८ जगदुपकारं कर्तुमिच्छुः ।
अश्वप्रतिबोधः ।
ASRASHASARSHA
॥८९॥