________________
त्रिषष्टिशलाकापुरुषचरिते
॥९०॥
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
तस्मिश्च नगरे नाम्ना जितशत्रुरभून्नृपः । श्रेष्ठी वणिक्सहस्रशः कार्तिकः श्रावकोऽपि च ।। २२२ ॥ तस्मिन् कषायवसनः पुरे भागवतव्रतः । मासं मासं चोपवासी पौरैभृशमपूज्यत ।।२२३ ।। पारणे पारणे पौरैः सोऽतिभक्त्या न्यमन्त्र्यत । न सम्यक्त्वैकवसुना श्रेष्ठिना कार्तिकेन तु ।।२२४ ॥ भूतवच्छ्रेष्ठिनस्तस्व छिद्रान्वेषणतत्परः । सोऽन्यदा पारणे राज्ञा न्यमन्त्रि जितशत्रुणा ।। २२५ ।। स परिव्राजकोऽप्यूचे यदि मे परिवेषणम् । करोति कार्तिको राजन् मुझे तव गृहे तदा ।। २२६ ।। आमेत्युक्त्वा नरेन्द्रोऽपि गत्वा तद्वेश्म कार्तिकम् । ययाचे भगवतोऽस्य परिवेष्यं त्वयानघ ॥२२७ ॥ स्वामिन्न युज्यतेऽस्माकमिदं पाखण्डधारिषु । तवाज्ञया कार्यमेतदपीति प्रत्यपादि सः ।। २२८ ।। पुरापि चेत्प्रावजिष्यं नाकरिष्यमिदं तदा । एवं विचिन्तयन् खेदाच्छ्रेष्ठी राजकुलं ययौ ।। २२९ ।। परिवेषयतस्तस्य परिव्राट् कार्तिकस्य सः । निकारं दर्शयामास तर्जनीदर्शनैर्मुहुः ।। २३० ॥ परिवेष्यानिच्छयापि श्रेष्ठी निर्वेदभावितः । समं वणिक्सहस्रेण स्वाम्यन्ते प्राव्रजत्तदा ।। २३१ ॥ द्वादशाङ्गधरः कृत्वा द्वादशाब्दी परं व्रतम् । मृत्वा सौधर्मकल्पेन्द्रः कार्तिकः समजायत ।। २३२ ।। परिव्राडपि मृत्वा स आभियोग्येन कर्मणा । तस्यैव वाहनमभूदैरावण इति द्विपः ।। २३३ ॥ तं शक्रं प्रेक्ष्य सामर्षः स प्रारेभे पलायितुम् । प्रसह्य धृत्वा शक्रस्तमारुरोह प्रभुर्हि सः ।। २३४ ॥ द्वे शीर्षे स चकाराथ द्विमूर्तिर्वासवोऽप्यभूत् । एवं स यावच्छीर्षोऽभूत्तावद्वान् वासवोऽपि हि ॥२३५ ।। १ सहस्त्रवणिजां स्वामी । २ सम्यक्त्वमेवैकं धनं यस्य तेन । ३ कार्तिकस्येदं कार्तिकमिदमर्थेऽण् । ४ अङ्गीचकार । ५ तिरस्कारम् ।
कार्तिक श्रेष्ठि वृत्तान्तः ।
॥९०॥