________________
त्रिषष्टिशलाका
षष्ठं पर्व सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ।
पुरुषचरिते
॥९१॥
भूयः पलायमानः स वजेणाहत्य वज्रिणा । प्राग्जन्ममत्सरी मच व्यधीयत वशंवदः ॥२३६ ॥ आकेवलाद्विहरतः सुव्रतस्वामिनोऽपि हि । एकादशमासन्यूनार्धाष्टमाब्दसहस्यगात् ।। २३७ ॥ प्रभोस्त्रिशत्सहस्राणि श्रमणानां महात्मनाम् । सहस्राणि तु पञ्चाशदार्यिकाणां तपोजुषाम् ।। २३८ ।। चतुर्दशपूर्वभृतां सहस्रार्धं महाधियाम् । अवधिज्ञानयुक्तानामष्टादश शतानि तु ।। २३९ ।। शतानि पञ्चदश तु मनःपर्ययशालिनाम् । केवलज्ञानयुक्तानामष्टादश शतानि तु ।। २४० ॥ जातवैक्रियलब्धीनां सहस्रद्वितयं पुनः । उत्पन्नवादलब्धीनां सहस्र द्वे शते तथा ।। २४१ ॥ श्रावकाणां लक्षमेकं द्वासप्ततिसहस्यपि । श्राविकाणां त्रिलक्षी च सार्धा विहरतोऽभवत् ॥ २४२ ॥ निर्वाणकाले सम्मेतं ययौ श्रीमुनिसुव्रतः । समं मुनिसहस्रेणानशनं प्रत्यपादि च ।। २४३ ॥ मासस्यान्ते ज्येष्ठकृष्णनवम्यां श्रवणे च भे । समं तैर्मुनिभिः स्वामी ययौ पदमनश्वरम् ॥ २४४ ।। सार्धाः सप्ताब्दसहस्राः कौमारव्रतयोः पृथक । राज्ये पञ्चदश त्रिशदित्यायुः सुव्रतप्रभोः ।। २४५ ।। श्रीमल्लिस्वामिनिर्वाणान्मुनिसुव्रतनिर्वृतिः । चतुःपञ्चाशति समालक्षेष्वतिगतेष्वभूत् ।। २४६ ॥
मुनिसुव्रतस्य मुनिभिः सहैव तैः पदमव्ययं गतवतः सुरेश्वराः । समुपेत्य मोक्षमहिमानमुच्चकैर्विधिवद्यधुः सविबुधाः ससम्भ्रमाः ॥२४७ ॥
निर्वाणम् ।
॥९१
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि मुनिसुव्रतस्वामिचरितवर्णनो नाम ।
सप्तमः सर्गः । १ प्राग्जन्मद्वेषी । २ शीघ्रम् । ३ कौमारे सार्धसप्त सहस्राणि वर्षाणि तावन्ति व्रते, पञ्चदश सहस्राणि च राज्ये एवं त्रिंशत्सहस्राणि जातानि ।