________________
अष्टमः सर्गः । श्रीमहापद्मचक्रिचरितम् ।।
षष्ठं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥९२॥
अष्टमः सर्ग महापद्म-: चक्रिचरितम् ।
पूर्वभवः ।
इतश्च विहरत्येव जिनेन्द्र मुनिसुव्रते । जज्ञे चक्री महापद्मश्चरितं तस्य कीर्त्यते ॥१॥ जम्बूद्वीपस्यास्य पूर्वविदेहावनिभूषणे । सुकच्छविजये ख्यातमस्ति श्रीनगरं पुरम् ॥२॥ तत्र राजा प्रजापालः प्रजापालनतत्परः । परराजयशोहंसनाशनाम्बुधरोऽभवत् ॥३॥ सोऽन्यदाकस्मिकं विद्युत्पातं दृष्ट्वा विरक्तधीः । समाधिगुप्तस्य मुनेः समीपे व्रतमाददे ।। ४ ।। स चिरं पालयामास खड्गधारोपमं व्रतम् । विपद्य चाच्युतेन्द्रोऽभूत्तपोलेशोऽपि नाफलः ॥ ५ ॥ इतश्च जम्बूद्वीपस्य क्षेत्रे भरतनामनि । समस्ति हास्तिनपुरं पुरं सुरपुरोपमम् ।।६ ॥ इक्ष्वाकुवंश्यस्तत्राभून्नाम्ना पद्मोत्तरो नृपः । पद्मानिकेतनं पद्ममिव पद्ममहाहूदे ॥७॥ तस्योज्वलगुणा ज्वाला नामान्तःपुरभूषणम् । बभूव महिषी रूपेणाभिभूतामराङ्गना ॥८॥ तस्यां च केसरिस्वप्नसूचितः प्रथमः सुतः । जज्ञे विष्णुकुमाराख्यः श्रिया सुरकुमारवत् ॥९॥ स प्रजापालजीवोऽपि पूरयित्वायुरच्युतात् । च्युत्वा ज्वालामहादेव्या उदरे समवातरत् ।। १०॥ चतुर्दशमहास्वप्नसूचितोऽथ सुतोऽभवत् । ज्वालादेव्या महापद्मो नाम धामाखिलश्रियाम् ।। ११ ॥ १ शत्रुभूतराज्ञां यश एव हंसस्तस्य नाशने मेघसमानः मेघागमे हि हंसाः सरोवराणि विहाय पलायन्ते इति स्थितिः । २ स्थानम् ।
॥९२॥