________________
त्रिषष्टिशलाकापुरुषचरिते
॥९३॥
षष्ठं पर्व अष्टमः सर्गः महापद्म
चक्रि
चरितम् ।
क्रमेण ववृधाते तावुभावपि सहोदरौ । निमित्तीकृत्य चाचार्य सर्वा जगृहतुः कला ॥१२ ।। स जिगीषुरिति ज्ञात्वा पद्मोत्तरमहीभुजा । यौवराज्ये महापद्मकुमारो निदधे सुधीः ॥ १३ ॥ इतश्चोज्जयिनीपुर्या श्रीवर्मा नाम भूपतिः । बभूव तदमात्यस्तु नमुचिर्नाम विश्रुतः ॥ १४ ॥ विहरन्नन्यदा तस्यां नगर्या समवासरत् । आचार्यः सुव्रतो नाम मुनिसुव्रतदीक्षितः ॥१५ ।। तद्वन्दनाय सर्वा गच्छतो नगराज्जनान् । प्रासादशिखरारूढोऽपश्यच्छ्रीवर्मभूपतिः ॥१६॥ अमी अकालयात्रायां सर्वर्या कुत्र नागराः । गच्छन्तीति स पप्रच्छ स्वच्छधीनमुचिं नृपः ।। १७॥ सोऽप्याख्यद्बहिरुद्याने श्रमणाः केचिदागताः । तद्वन्दनाय तद्भक्त्या एते गच्छन्ति सत्वराः ।। १८ ॥ यामो वयमपीत्युक्ते राज्ञा नमुचिरब्रवीत् । यदि वो धर्मशुश्रूषा धर्मं वक्ष्येऽहमेव तत् ।। १९ ।। तत्रावश्यं गमिष्यामीत्युक्ते भूयोऽपि भूभुजा । मन्त्र्यूचे स्वामिना तर्हि स्थेयं मध्यस्थवृत्तिना ॥ २० ॥ सर्वान्निरुत्तरीकृत्य वादे जेष्यामि तानहम् । पाखण्डिनां हि पाण्डित्यं प्राकृतेष्वेव जम्भते ॥ २१ ॥ इत्युक्ते नृपतिर्मन्त्री राजलोकोऽखिलोऽपि च । प्रययुः सुव्रताचार्यसन्निधौ विविधाशयाः ॥२२॥ पप्रच्छुस्तत्र ते धर्म मुनिभ्यः स्वैरवादिनः । मौनेन मुनयोऽप्यस्थुस्तेषामुच्चावचोक्तिभिः ।।२३ ॥ ततश्च नमुचिः क्रुद्धो निन्दन् शासनमार्हतम् । सूरि प्रतिजगादैवं किमहो वेत्सि गौरवम् ।। २४ ।। इत्यूचुः सुव्रताचार्या अनार्यमपि मन्त्रिणम् । जिह्वा कण्डूयते ते चेत् किमपि ब्रूमहे तदा ॥ २५ ॥ १ जेतुमिच्छुर्जयनशील इति यावत् । २ पामरजनेषु साधारणजनेषु वा । ३ अधिकम् ।
नमुचिपराभवः ।
||९३॥