Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 511
________________ त्रिषष्टिशलाका पुरुषचरिते ॥९४ ॥ I अथैकसुव्रताचार्यपादान् क्षुल्लोऽभ्यधादिदम् । स्वयं वो युज्यते वक्तुं न विद्वन्मानिनामुना ।। २६ ।। अमुं वावे विजेष्येऽहं सभ्यीभूयैव पश्यथ । भट्टो वदत्वसौ पक्षं दूषयामि यथातथम् ॥ २७ ॥ ऊचे नमुचिभट्टोऽपि क्रोधकर्कशवागिति । अशौचाः पाखण्डिनश्च त्रयीबाह्याश्च सर्वदा ।। २८ । तत्संवासयितुं यूयं न युक्ता निजमण्डले । इत्येष खलु मे पक्षो युष्मास्वन्यत् किमुच्यते ॥ २९ ॥ प्रत्यूचे क्षुल्लकोऽप्येवमशौचं सुरतं विदुः । तत्सेवकश्च पाखण्डी त्रयीबाह्यः स एव हि ।। ३० । त्रय्यामर्थोऽयमप्कुम्भः कण्डनी पेषणी तथा । चुल्ली प्रमार्जनी पञ्च सूनाः पापाय गेहिनाम् ।। ३१ ।। सेवन्ते य इमाः सूनास्त्रयीबाह्या हि ते खलु । सूनापञ्चकहीनास्तु त्रयीबाह्याः कथं वयम् ।। ३२ ।। अस्माकमपदोषाणां दोषवत्सु जनेषु भोः । म्लेच्छेषूत्तमजातीनामिव वासश्च नोचितः ।। ३३ ।। इत्थंकारं क्षुल्लकेन सुयुक्तिभिरंपोदितः । स्वस्थानं सोऽगमन्मन्त्री राजा राजजनोऽपि च ॥ ३४ ॥ स मन्त्री निशि चोत्थाय निशाचर इवोत्कटः । ज्वलन्निवातिक्रोधेन तद्वधाय समाययौ ॥ ३५ ॥ सद्यः शासनदेव्या च वार्तिकेनेव पन्नगः । स स्तंभितः प्रभाते च ददृशे विस्मितैर्जनैः ।। ३६ ।। आश्चर्यं प्रेक्ष्य तद्राजा लोकाश्च बहवस्तदा । श्रुत्वा धर्ममुपाशाम्यन् विमदा इव दन्तिनः ॥ ३७ ॥ तथापमानान्नमुचिर्नगरं हस्तिनापुरम् । ययौ स्थानं विदेशो हि मानिनामपमानिनाम् ॥ ३८ ॥ युवराजो महापद्मः स्वसाचिव्ये चकार तम् । अभ्यागतेऽन्यनृपतिप्रधाने ह्यर्थिनो नृपाः ।। ३९ ।। १ लघुसाधुः । २ आत्मानं विद्वांसं मन्यते इति विद्वन्मानी तेन । ३ अस्मद्देशे निवासयितुं यूयं न युक्ताः । ४ जलस्थानम् । ५ जीवानां वधस्थानं सूनोच्यते । ६ निरसितः । ७ गरुडेन । ८ तिरस्कृतानाम् । षष्ठं पर्व अष्टमः सर्गः महापद्म चक्रि चरितम् । नमुचिपराभवः । | ॥९४ ॥

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524