Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 491
________________ त्रिषष्टिशलाका पुरुषचरिते 1198 11 सप्तमः सर्गः (श्रीमुनिसुव्रतस्वामिचरितम् । मुनिसुव्रतनाथस्य देशनायां रदेत्विषः । जयन्ति ज्ञानदुग्धाब्धेर्वेलाः पावितेभूतलाः ॥ १ ॥ विदुषां प्रतिभोल्लासेसारस्वतमिवामलम् । मुनिसुव्रतदेवस्य चरितं कीर्तयिष्यते ॥ २ ॥ अथात्रैव जम्बूद्वीपे विदेहेष्वपरेषु तु । विजये भरताख्येऽस्ति चम्पेति विपुला पुरी ॥ ३ ॥ तस्यामासीन्महाबाहुर्लोकोत्तरपराक्रमः । सुरश्रेष्ठ इव सुरश्रेष्ठो नाम महीपतिः ॥ ४ ॥ स चतुर्धाप्यभूद्वीरो दीनत्राता रणोत्कटः । प्रार्थनाकल्पविटपी जिनधर्मधुरन्धरः ॥ ५ ॥ खुरलीसमयेष्वेव सोऽस्त्रविद्यामदर्शयत् । न पुना रणरङ्गेषु साधयन्नाज्ञया नृपान् ।। ६ ।। विनयादीन् गुणांस्तस्य वर्णयन्तो दिवानिशम् । वाचंयमत्वं मुनयो जहुर्वाचंयमा अपि ॥ ७ ॥ सोऽन्यदा नन्दनं मुनिं हृदयनन्दनम् । उद्याने समवसृतं ववन्दे भक्तितः सुधीः ॥ ८ ॥ तद्देशनावचः श्रुत्वा मोहपङ्कजलप्लवम् । स समासादयामास भववैराग्यभावनाम् ।। ९ ।। मुनेस्तस्यैव पादान्ते प्रव्रज्यां प्रत्यपादि सः । अपालयद्यथावच्च सात्विकानां शिरोमणिः ।। १० । १ दन्तकान्तयः । २ पवित्रितं भूतलं याभिस्ताः । ३ बुद्धेर्विकासकरणे । ४ प्रार्थनासिद्धौ कल्पवृक्षसदृशः । ५ अस्त्रविद्याभ्याससमये । षष्ठं पर्व सप्तमः सर्गः श्रीमुनि - सुव्रतस्वामि चरितम् । पूर्वभवः । ॥७४॥

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524