Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 488
________________ त्रिषष्टिशलाकापुरुषचरिते ७१॥ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाजिनचरितम् । प्रयत्नकृष्टैः क्लिष्टैश्च रागाद्यैः किमुपासितैः । अयत्नलभ्यं हृद्यं च धार्य साम्यं सुखावहम् ।। २३६ ।। परोक्षार्थप्रतिक्षेपात् स्वर्गमोक्षावपडुताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निकुते ॥२३७ ।। कविप्रलापरूढेऽस्मिन्नमृते किं विमुह्यते । स्वसंवेद्यरसं हन्त पेयं साम्यरसायनम् ।। २३८ ।। खाद्यलेह्यभूष्यपेयरसेभ्यो विमुखा अपि । पिबन्ति यतयः स्वैरं साम्यामृतरसं मुहुः ।। २३९ ।। कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च । यस्याप्रीत्यै न वा नो वा प्रीत्यै स समतापतिः ।। २४० ॥ न गूढं किंचनावार्यमुष्टिः काचिन्न वापरा । बालानां सुधियां चैकं साम्यं भवरुजौषधम् ।। २४१ ॥ अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् । यद् घ्नन्ति साम्यशस्त्रैण रागादीनां कुलानि ते ।। २४२ ॥ अयं प्रभावः परमः समत्वस्य प्रतीयताम् । यत्पापिनः क्षणार्धेन पदमिच्छति शाश्वतम् ।। २४३ ॥ यस्मिन् सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं स्वस्ति तस्मै समत्वाय महौजसे ।।२४४ ।। संसर्गेऽप्युपसर्गाणामपि भृत्यावुपस्थिते । न तत्कालोचितं किंचित् साम्यादौपयिकं वरम् ।। २४५ ।। एकं मोक्षतरोर्बीजमिहात्यद्भुतशर्मदम् । तस्मात्साम्यं विधातव्यं रागद्वेषजयेषिणा ॥२४६ ।। तया देशनया भूपाः षट् तेऽन्येपि प्रवव्रजुः । संजज्ञिरे श्रावकास्तु कुम्भप्रभृतयस्तदा ॥२४७ ।। भिषगाद्या गणभृतोऽधविंशतिरथाभवन् । भगवद्देशनान्ते च गणभृद्देशनां व्यधात् ।।२४८ ॥ द्वितीयस्मिन् दिने मल्लिप्रभोस्तत्रैव कानने । विश्वसेननृपाज्जज्ञे परमानेन पारणम् ।। २४९ ॥ १ प्रत्यक्षम् । २ सर्पदेहः । ३ सम्बन्धे षष्ठीयम् । ४ प्रधानम् । देशना। I७१॥

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524