________________
त्रिषष्टिशलाकापुरुषचरिते
७१॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाजिनचरितम् ।
प्रयत्नकृष्टैः क्लिष्टैश्च रागाद्यैः किमुपासितैः । अयत्नलभ्यं हृद्यं च धार्य साम्यं सुखावहम् ।। २३६ ।। परोक्षार्थप्रतिक्षेपात् स्वर्गमोक्षावपडुताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निकुते ॥२३७ ।। कविप्रलापरूढेऽस्मिन्नमृते किं विमुह्यते । स्वसंवेद्यरसं हन्त पेयं साम्यरसायनम् ।। २३८ ।। खाद्यलेह्यभूष्यपेयरसेभ्यो विमुखा अपि । पिबन्ति यतयः स्वैरं साम्यामृतरसं मुहुः ।। २३९ ।। कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च । यस्याप्रीत्यै न वा नो वा प्रीत्यै स समतापतिः ।। २४० ॥ न गूढं किंचनावार्यमुष्टिः काचिन्न वापरा । बालानां सुधियां चैकं साम्यं भवरुजौषधम् ।। २४१ ॥ अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् । यद् घ्नन्ति साम्यशस्त्रैण रागादीनां कुलानि ते ।। २४२ ॥ अयं प्रभावः परमः समत्वस्य प्रतीयताम् । यत्पापिनः क्षणार्धेन पदमिच्छति शाश्वतम् ।। २४३ ॥ यस्मिन् सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं स्वस्ति तस्मै समत्वाय महौजसे ।।२४४ ।। संसर्गेऽप्युपसर्गाणामपि भृत्यावुपस्थिते । न तत्कालोचितं किंचित् साम्यादौपयिकं वरम् ।। २४५ ।। एकं मोक्षतरोर्बीजमिहात्यद्भुतशर्मदम् । तस्मात्साम्यं विधातव्यं रागद्वेषजयेषिणा ॥२४६ ।। तया देशनया भूपाः षट् तेऽन्येपि प्रवव्रजुः । संजज्ञिरे श्रावकास्तु कुम्भप्रभृतयस्तदा ॥२४७ ।। भिषगाद्या गणभृतोऽधविंशतिरथाभवन् । भगवद्देशनान्ते च गणभृद्देशनां व्यधात् ।।२४८ ॥ द्वितीयस्मिन् दिने मल्लिप्रभोस्तत्रैव कानने । विश्वसेननृपाज्जज्ञे परमानेन पारणम् ।। २४९ ॥ १ प्रत्यक्षम् । २ सर्पदेहः । ३ सम्बन्धे षष्ठीयम् । ४ प्रधानम् ।
देशना।
I७१॥