________________
त्रिषष्टिशलाकापुरुषचरिते
॥७०॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
दुर्ध्यानान्यन्यध्यानानि भवद्ध्यानं विना खलु । यैरात्मा बध्यते बाढं निजैलूंतेव तन्तुभिः ।। २२२ ।। कथाश्च दुःकथा एव भवद्गुणकथां विना । यकाभिस्तित्तिरिरिव वाग्भिर्विपदमश्नुते ।। २२३ ।। त्वत्पादपद्मसेवायाः प्रभावेण जगद्गुरो । भवच्छेदोऽस्तु यद्वास्तु त्वयि भक्तिर्भवे भवे ।। २२४ ॥ एवं स्तुत्वा विरतयोरमरेन्द्रनरेन्द्रयोः । श्रोतुं चोत्कण्ठिते सङ्घ श्रीमल्लिर्देशनां व्यधात् ।। २२५ ॥ स्वतोऽप्यपारः संसारो वर्धते च विशेषतः । रागादिना पूर्णमासीदिनेनेव सरित्पतिः ॥ २२६ ।। अमन्दानन्दजनके साम्यवारिणि मज्जताम् । जायते सहसा पुंसां रागद्वेषमलक्षयः ।। २२७ ॥ प्रतिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ।। २२८ ॥ कर्मजीवं च संश्लिष्टं परिज्ञानात्मनिश्चयः । विभिन्नीकुरुते साधुः सामायिकशलाकया ।। २२९ ।। रागादिध्वान्तविध्वंसे कृते सामायिकांशुना । स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः ।। २३० ।। स्निह्यन्ति जन्तवो नित्यवैरिणोऽपि परस्परम् । अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः ।। २३१ ॥ चेतनाचेतनै वरिष्यनिष्टतया स्थितैः । न मुह्यन्ति मनो यस्य तस्य साम्यं प्रचक्ष्यते ॥२३२ ।। गोशीर्षचन्दनालेपे वासिच्छेदे च बाहयोः । अभिन्ना चित्तवृत्तिश्चेत्तदा साम्यमनुत्तमम् ।। २३३ ॥ अभिधेतरि च प्रीते रोषान्धे चातिशप्तरि । यस्याविशेषणं चेतः स साम्यमवगाहते ॥२३४ ।। हूयते न जप्यते न दीयते वा न किञ्चन । अहो अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ।। २३५ ॥ १ ऊर्णनाभ इव । २ परिज्ञानेनात्मनो निश्चयो यस्य स आत्मज्ञानीत्यर्थः । ३ खड्गेन छेदे सति । ४ हस्तवाची बाहाशब्दोऽप्यस्ति । ५ स्तुतिं कुर्वति । ६ निन्दां कुर्वति । ७ विना मूल्येन क्रीता ।
देशना ।
I७०॥