________________
त्रिषष्टिशलाकापुरुषचरिते
॥६९॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
नारीकुचवदुष्णत्वात् पथिकैः शीतपीडितैः । आचम्यमानकूपाम्बु सेव्यमानवटद्रुमम् ।। २०७ ॥ हेमन्तलक्ष्मीहसितैरिव कुन्दैर्विकस्वरैः । शोभमानं तदुद्यानं प्रविवेश जगद्गुरुः ।। २०८ ॥
॥चतुर्भिः कलापकम् ।। बहिःपरिच्छदार्हाणां नृणां दशशतैः समम् । स्त्रीणामप्यन्तरपरीवारार्हाणां त्रिभिः शतैः ।। २०९ ।। मार्गस्य शुक्लैकादश्यां पूर्वाह्ने भेऽश्वयुज्यथ । यथाविधि प्रभुमल्लिः प्रवव्राज कृताष्टमः ।। २१० ॥ मनःपर्ययमुत्पेदे मल्लेर्ज्ञानं तदैव हि । तस्मिन्नेव दिनेऽशोकमूले केवलमप्यभूत् ।।२११ ॥ शक्रादिभिश्च समवसरणं विदधेऽमरैः । धनुःशतत्रयोत्तुङ्गचैत्यपादपशोभितम् ।।२१२ ।। तत्र प्रविश्य प्रारद्वारा मल्लिस्तं चैत्यपादपम् । प्रदक्षिणीकृत्य नमस्तीर्थायेत्यभिधाय च ।। २१३ ।। प्राक्सिंहासनमध्यास्त प्राङ्मुखोऽथान्यदिक्ष्वपि । सद्यस्तत्प्रतिरूपाणि विचक्रुर्व्यन्तरामराः ॥ २१४ ॥ अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । कुम्भस्ते षट् च राजानोऽनुशक्रं समुपाविशन् ।।२१५ ॥ देवराजकुम्भराजौ नमस्कृत्य जगद्गुरुम् । श्रद्धाधौतान्तरात्मानाविति तुष्टुवतुर्मुदा ।। २१६ ॥ दिष्ट्या प्रणमतां भाले त्वत्पादनखरश्मयः । भवन्ति भवभीतानां रक्षातिलकसन्निभाः ।। २१७ ।। आजन्म ब्रह्मचारित्वाद्दीक्षा ते जन्मतोऽपि हि । व्रतपर्यायदेशीयं मन्ये जन्मापि तत्तव ।। २१८ ॥ किं देवसद्मना तेन न यत्र तव दर्शनम् । इदं तु भूतलं श्रेयस्त्वदालोकपवित्रितम् ।। २१९ ॥ नृदेवतिर्यग्जन्तूनां भीतानां भववैरितः । दुर्गं त्वदीयं समवसरणं शरणं प्रभो ॥२२० । कुकर्माण्यन्यकर्माणि त्वत्पादप्रणति विना । यैः कर्माण्येव सूयन्ते संसारस्थितिकारणम् ।। २२१ ॥
प्रव्रज्या कैवल्यं च ।
॥६९॥