________________
त्रिषष्टिशलाकापुरुषचरिते
॥६८॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
मूत्रैकस्रोतसः श्लेष्मदृतेर्दुर्गन्धधारिणः । किं पुरस्रोतस इव सारमस्ति मनागपि ॥ १९३ ॥
॥युग्मम् ॥ अत्र संस्कारहेतुश्च कर्पूरादि सुगन्ध्यपि । मलसात् स्याल्लवणसात् सुधावृष्टिरिवोषरे ॥ १९४ ।। बहिरन्तश्च बीभत्से कथंकारमिहाङ्गके । अङ्गानुरागं कुर्वन्तु मनागपि विवेकिनः ।। १९५ ।। इतो भवे तृतीयेऽस्मिन् यद्भवद्भिर्मया सह । तपः प्रव्रजितैश्चक्रे मुग्धाः स्मरत तन्न किम् ।। १९६ ।। मल्लीवचो विमृशतां तत्तेषां पृथिवीभुजाम् । जातिस्मरणमुत्पेदे किं स्यान्नार्हदनुग्रहात् ।। १९७ ।। ततो जालकपाटानि श्रीमल्लिरुदघाटयत् । ते चाभ्युपेत्य षडपि प्रबुद्धा एवमब्रुवन् ।। १९८ ॥ स्मरामो यद्भवे पूर्वे सप्तापि सुहृदो वयम् । संभूय कृतसङ्केत्तास्तपस्तीव्रमकृष्महि ।।१९९ ।। बोधिता स्मस्त्वया साधु नरकात्साधु रक्षिताः । आदिशातः परं कृत्यं गुरुस्त्वमसि नः प्रभो ॥ २०० ॥ प्रव्रज्या समये ग्राह्येत्युदीर्य विससर्ज तान् । षडपि मापतीन् मल्लिर्जग्मुः स्वं स्वं पुरं च ते ।। २०१ ।। तीर्थं प्रवर्तयेत्युक्ते तदा लोकान्तिकामरैः । मल्ल्यदाद्वार्षिकं दानं पूर्णार्थ जृम्भकामरैः ।। २०२ ।। जन्मतोऽब्दशते पूर्णे पञ्चविंशधनून्नतिः । कुम्भराजसुरेन्द्राद्यैः कृतनिष्क्रमणोत्सवा ।। २०३ ॥ जयन्तीनामशिबिकारत्नमारुह्य मल्ल्यथ । सहस्राम्रवणं नाम जगामोपवनोत्तमम् ।। २०४ ।। कृष्णेक्षुवाटैरभ्युद्यत्कृष्णपक्षमिव क्वचित् । उच्छुक्लपक्षमिव च क्वचित्पुण्ड्रेक्षुवाटकैः ।। २०५ ।। नागरंगीपक्वफलैः शोणाश्मभिरिवाश्चितम् । राजमानं मरुचकर्नीलबद्धमिवाभितः ।। २०६ ॥ १ दृतिः पात्रविशेषः । २ विचारयताम् । ३ श्वेतेावाटैः । ४ शोणमणिभिः ।
पूर्वभवकथनम् ।
॥६८॥