________________
षष्ठं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥७॥
षष्ठः सर्गः श्रीमलिनाथजिनचरितम् ।
मल्लिरप्यालपत्तात प्रत्येकं गुढपूरुषैः । तुभ्यं दास्यामि मल्लीमित्युक्त्वा षडपि बोधय ।। १८० ॥ तस्या मम प्रतिमायाः पुरोपवरकेषु ते । क्रमेण सायमानेयाः प्रच्छन्नाः श्वेतवाससा ।। १८१ ।। तथैव विदधे राजा तेऽप्याजग्मुस्तथैव हि । कपाटजालकैर्मल्लीप्रतिमां ददृशुश्च ताम् ।। १८२ ।। अहो पुण्यैरियं प्रापि सुरूपा चारुलोचना । इति मल्लीधिया दध्युस्तेऽनुरागेण पार्थिवाः ।। १८३ ।। प्रतिमापृष्ठद्वारेण प्राविशत्तत्र मल्ल्यपि । प्रतिमान्तरिता तालुपिधानाब्जमपानयत् ।। १८४ ।। प्रक्षिप्तकथिकाहारगन्धः सद्यश्च निर्ययौ । शकृद्गन्ध इवासह्यः प्रेसह्य घ्राणबाधकः ।। १८५ ॥ कपाटजालैस्तदपवरकेष्वपि सोऽविशत् । षण्णामपि नरेन्द्राणां दारयन्निव नासिकाः ।। १८६ ।। पिधाय नासिकां तेऽपि वाससा गन्धतस्ततः । पराङ्मुखा अजायन्त वैरिभ्य इव कातराः ।। १८७ ॥ भोः किं पराङ्मुखा यूयमिति मल्ल्याभिभाषिताः । अमुं न शक्नुमः सोढुं दुर्गन्धमिति तेऽभ्यधुः ।। १८८ ।। मल्लिस्तान् प्रत्युवाचैवं सौवर्णी प्रतिमा ह्यसौ । अत्राप्यन्वहमाहारक्षेपाद्गन्धोऽयमीदृशः ।। १८९ ॥ किं ब्रूमस्तस्य यद्गर्भे पित्रोः शुक्रासगुद्भवम् । पश्चाच्च कललीभूतं मांसपेशीत्वभाक् ततः ।। १९० ॥ ततो मातकृताहारनिर्यासरसपोषितम् । जरायुनरकमग्नं वपुर्विण्मूत्रवासितम् ।। १९१ ।।युग्मम् ।। एवंविधसमुत्पत्तेर्विष्टाकोष्ठस्य वर्मणः । रसासृग्मांसमेदोऽस्थिमज्जाशुक्राञ्चितात्मनः ॥ १९२ ।। १शकृद्विष्य तद्वद्गन्धो यस्य सः । २ हठात् । ३ वीर्यशोणिताम्यामुद्भूतम् । ४ कललं गर्भवेष्टनचर्म तद्वद्भूतम् । ५ मांसपेशी। गर्भस्थप्राण्यवयवविशेषः । ६ निर्यासरसः सत्त्वरसः । ७ जरायुर्गर्भाशयः । ८ देहस्य ।
सुवर्णप्रतिमाद्वारापनयनम् ।
&
॥७॥