________________
त्रिषष्टिशलाकापुरुषचरिते
॥६६॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
इत्यूचे पञ्चमेनापि यद्धास्तिनपुराधिपः । हस्तिमल्लो महास्थाम्ना लघुहस्तो महाभुजः ॥ १६५ ॥ अनेकरणनियूंढो व्यूढोरस्कः सुधीर्युवा । प्ररोहणः कीर्तिवल्लेर्गुणरत्नैकरोहणः ॥ १६६ ॥ दीनानाथसमुद्धारोऽदीनशत्रुर्महीपतिः । कन्यां मार्गति मल्ली ते विदेहाधीश देहि ताम् ।। १६७ ॥ षष्ठेनापीत्यभिदधे यत्काम्पील्यपुराधिपः । अकम्पनीयो रिपुभिः कुञ्जरैरिव पर्वतः ॥ १६८ ॥ शोभितोऽनल्पसेनाभिर्नदीभिरिव सागरः । सेनानीभिः सुनासीर इवाप्रतिघशक्तिभिः ।। १६९ ।। जितशत्रुर्जिताशेषशत्रुर्मद्वचसा नृपः । तव कन्यामर्थयते दीयतामविलम्बितम् ।। १७० ।। कुम्भराजो जगादैवं के तु ते बहुमानिनः । अप्रार्थितप्रार्थका रे मूढाः पौर्थिवपाशनाः ।। १७१ ॥ जगत्त्रयशिरोरत्नं कन्यारत्नमिदं हि नः । अपि शक्रादिदेवानां परिणेतुं न योग्यता ।। १७२ ।। मनोरथो भवन्नाथैर्वृथा चक्रे दुराशयैः । दूता वराकास्तद्यात निर्यात नगरान्मम ।। १७३ ।। एवं ते निकृता राज्ञा गत्वा स्वस्वामिनां द्रुतम् । तद्वाचिकमवोचन्त क्रोधानलसमीरणम् ।। १७४ ।। ततः षडपि राजानस्ते समानपराभवाः । दूतान् परस्परं प्रेष्य निश्चिक्युः कुम्भविग्रहम् ॥ १७५ ।। चेलुः षडपि ते वर्षधराद्रय इवौजसा । स्थगयन्तो महीं सैन्यैः प्रापुश्च मिथिलापुरीम् ॥ १७६ ।। प्रवेशनिर्गमद्वारनिवारणविचक्षणाः । तेऽरुन्धन् वेधयित्वा तां चन्दनदुमिवाहयः ॥ १७७ ॥ कुम्भोऽपि तेन रोधेन खिन्नः कतिपयैर्दिनैः । चिन्तापन्नो यावदस्थात्तावन्मल्लिः समाययौ ॥१७८ ॥ उद्विग्न इव किं तात तिष्ठसीति तयोदितः । उद्वेगकारणं तस्या आचख्यौ कुम्भपतिः ॥ १७९ ॥ १ लघुः शीघ्रकारी हस्तो यस्य सः । २ अक्कुरः । ३ इन्द्रः । ४ अप्रार्थ्यस्य प्रार्थयितारः । ५ नृपाघमाः । ६ निर्गच्छत । ७ तिरस्कृताः ।
दूतनिष्कासनम् ।
॥६॥