________________
त्रिषष्टिशलाकापुरुषचरिते
॥६५ ॥
ऊचे तत्राद्यादूतेन यत्साकेतपुरेश्वरः । अनेकसामन्तशिरोमार्जिताङ्घ्रिसरोरुहः ।। १५२ ।। महाभुजो महोत्साहो रूपेण मकरध्वजः । निशाकरः सौम्यतया प्रतापेन दिवाकरः ।। १५३ । बृहस्पतिर्धिषणया प्रतिबुद्धिर्महीपतिः । कन्यां ते याचते मल्लीं परिणेतुमनिन्दिताम् ।। १५४ ॥ कन्या ह्यवश्यं दातव्या पित्रान्यस्यापि कस्यचित् । तदेनं तत्प्रदानेन स्वजनं कर्तुमर्हसि ।। १५५ ॥ ऊचे द्वितीयदूतेन यच्चम्पानगरीपतिः । युवा युगायतभुजः पीनस्कन्धः सुलोचनः ।। १५६ ॥ कुलीनश्चतुरः सत्यसङ्गरः सङ्गरोजितः । अधीती सर्वशास्त्रेषु शस्त्रेषु च कृतश्रमः ।। १५७ ।। चन्द्रवच्छायया चन्द्रच्छायो नाम महीपतिः । मल्लीं मार्गयति त्वत्तस्तां तस्मै दातुमर्हसि ।। १५८ ।। तृतीयेनापि जगदे यच्छ्रावस्तीपुरीश्वरः । चिन्तामणिः प्रणयिनां क्षत्रियाणां शिरोमणिः ।। १५९ ॥ शरण्यः शरणेच्छूनां वरेण्यो वीर्यशालिनाम् । क्रीडागारं जयश्रीणामुद्यानं गुणशाखिनाम् ।। १६० । रुक्मी नाम महीपालस्तव कन्यामभीप्सति । विधेद्युचितयोर्योगमुचितज्ञोऽसि पार्थिव ।। १६१ ।। तुर्येणाप्यभ्यधाय्येवं यत्काशीनगरीश्वरः । अद्भुतेनेश्वरत्वेन जितपुण्यजनेश्वरः ।। १६२ ।। वाग्मी सौन्दर्यकन्दर्पो दर्पच्छित् परिपन्थिनाम् । सदाचारपथे पान्थः शासने पाकशासनः ।। १६३ ।। शङ्खच्छेदोज्वलयशाः शङ्खो नाम महीपतिः । त्वत्तः प्रार्थयते कन्यां प्रतिपद्यस्व तन्नृप ॥ १६४ ॥
१ युगवदायती भुजौ यस्य सः । २ सत्यप्रतिज्ञः । ३ युद्धे ऊर्जितः । ४ अधीतमनेनेति । ५ कान्त्या । ६ गुणा एव वृक्षास्तेषाम् । ७ जितः पुण्यजनेश्वरः कुबेरो येन सः । ८ शङ्खखण्डवदुज्ज्वलं यशो यस्य सः ।
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि— नाथजिनचरितम् ।
कन्याया - चनम् ।
॥६५॥