________________
त्रिषष्टिशलाकापुरुषचरिते
॥६४॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
चोक्षा स्मेरमुखीत्यूचे राजन्नन्तःपुरं निजम् । कूपभेकः कूपमिव किमिदं बहु मन्यसे ।१३९ ।। यदस्ति मिथिलापुर्यां कुम्भस्य पृथिवीपतेः । मल्लीति कन्यकारलं चूडारलं मृगीदृशाम् ।। १४० ।। अङ्गुष्ठमात्रकस्यापि श्रीस्तदीयस्य कापि या । न सा त्रिदशकन्यासु नागकन्यासु चेक्ष्यते ॥१४१ ।। संस्थानलक्ष्मीरन्यैव रूपमप्यन्यदेव हि । लावण्यसम्पदन्यैव तस्याः किं चान्यदुच्यते ॥१४२ ।। जितशत्रुस्तदुक्त्यैवं पूर्वस्नेहेन च क्षणात् । तत्प्रार्थनकृते प्रैषीदूतं कुम्भनृपान्तिके ।। १४३ ।। प्राग्जन्मसुहृदां तेषां षण्णां मल्लिमहीभुजाम् । पश्यन्त्यवधिना बोधमशोकवनिकान्तरे ॥१४४ ।। मध्येसौधापवरकं रत्नपीठे मनोहरे । आत्मनः प्रतिमा हैमी पद्मरागकृताधराम् ।। १४५ ।। नीलकेशीमिन्द्रनीलस्फटिकोपललोचनाम् । प्रवालमयहस्ताङ्घिमातालुशुषिरोदराम् ।। १४६ ।। सच्छिद्रां तालुनि तत्र स्वर्णाम्भोजपिधानिकाम् । नितान्तरम्यावयवां कारयित्वा न्यवेशयत् ।। १४७ ।।
॥चतुर्भिः कलापकम् ।। प्रतिमापवरकस्य पुरो भित्तावकारयत् । संजालककपाटानि षड्वाराणि च कुम्भसूः ।। १४८ ।। द्वाराणां च पुरस्तेषां ह्रस्वापवरकांश्च षट् । प्रतिमापृष्ठभित्तौ च सैकं द्वारमकारयत् ।। १४९ ॥ ततः सर्वाहारपिण्डी प्रतिमायास्तु तालुनि । क्षिप्त्वा स्वर्णाम्बुजेनाथ पिधाय बुभुजेऽन्वहम् ।। १५० ॥ इतश्च तेषां युगपत् षण्णामप्यवनीभुजाम् । आययुर्दूतपुरुषा मिथिलानाथसन्निधौ ।। १५१ ॥ १ देहशोभा । २ अपवरको गर्भगृहम् । ३ तालुपर्यन्तं शुषिरं रन्ध्रसहितमुदरं यस्यास्ताम् । ५ जालकपाटसहितानि ।
सुवर्णप्रतिमायामाहारप्रक्षेपः ।
॥६४॥