________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥६३॥
त्रिदण्डपाणिः काषायवसना कुण्डिकाजलैः । सदर्भेर्भुवमभ्युक्ष्य स्ववृष्यां निषसाद सा ।। १२५ ।। मल्लेरप्यन्यजनवत् सा धर्मं तं तथा जगौ । ज्ञानत्रितयभृन्मल्लिरप्येवमवदत्ततः ।। १२६ ।। दानमात्रं न धर्माय तद्धि चेद्भवेत् । तह्यर्तुकुर्कुटादीनां पोषणान्यपि तत्कृते ॥ १२७ ॥ तीर्थाभिषेकैः प्राणातिपातमूलैः कथं शुचिः । असृजा क्षाल्यमानं किमसृग्दिग्धं विशुध्यति ॥ १२८ ॥ धर्मो विवेकमूलस्तु निर्विवेकस्य नास्ति सः । क्लेशाय केवलं तस्य तपांस्यपि न संशयः ।। १२९ । मल्ल्यैवमुक्ता सा चोक्षा विलक्षाभूदधोमुखी । केनेश्वरवचोयुक्तियुक्तं बाधितुमीश्यते ॥ १३० ॥ कियच्चिरमिदं विश्वमाः पाखण्डिनि वञ्चितम् । त्वया कुंशासनेनेति दास्यादिभिरभसि सा ।। १३१ ॥ चोक्षेत्यचिन्तयद्राज्यसम्पदुन्मत्तयानया । एतत्परिच्छदेनापि स्वामिच्छन्दानुवर्तिना ।। १३२ ।। यदस्मि तर्जिता स्वैरं तद्वैरानृण्यहेतवे । क्षेप्स्याम्येनां सपत्नीषु बह्वीषु निजबुद्धितः ॥ १३३ ॥ एवं विचिन्त्य निर्गत्य सामर्षाध्मातमानसा । जगाम काम्पील्यपुरे जितशत्रुनृपान्तिके ।। १३४ ।। प्रतिपत्त्या महत्या सा दृष्ट्य तेन महीभुजा । कृताशीर्वादकल्याणा स्वस्यां वृष्यामुपाविशत् ।। १३५ ।। सा राज्ञान्तः पुरेणापि ववन्दे भक्तिपूर्वकम् । धर्मं तत्रापि चाशंसद्दानतीर्थाभिषेकजम् ।। १३६ ।। भूपतिस्तामुवाचैवं भगवत्यखिलां महीम् । एतामपरतन्त्रत्वादभ्राम्यस्तेन पृच्छ्यसे ।। १३७ ।। वरमन्तःपुरस्त्रैणं चोक्षे यादृगिदं मम । अन्यत्राप्यस्ति कुत्रापि किं तादृग्दृष्टपूर्विणी ॥ १३८ ॥
१ स्वदर्भासने । २ ओतुर्बिडालः । ३ धर्माय । ४ असृजा शोणितेन दिग्धं लिप्तम् । ५ समर्थीभूयते । ६ करणे तृतीया । ७ छन्दः इच्छा । ८ अमर्षः क्रोधः । ९ गौरवेण । १० स्त्रीणां समूहः स्त्रैणम् ।
+++
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि नाथजिनचरितम् ।
मल्लिकुमारीवर्णनं
दूतप्रेषणं च ।
॥६३॥