________________
त्रिषष्टिशलाकापुरुषचरिते
॥६२॥
धात्र्या किमेतदित्युक्ते कुमारोऽप्यब्रवीदिति । स्वसा मल्ली पुरोऽस्त्येषा ततोऽत्र क्रीड्यते कथम् ॥१११ ॥ सम्यग्निरूप्य धात्री साप्याचख्यौ परिभाव्यताम् । न साक्षान्मल्ल्यसौ किंतु चित्रस्था मापसर्प तत् ।।११२ ॥ ऋद्धो मलकुमारोऽपि तस्य चित्रस्य लेखकम् । निकर्त्य दक्षिणकरं संदंशं निरवासयत् ।। ११३ ।। सोऽभ्येत्य हास्तिनपुरेऽदीनशत्रोर्महीपतेः । तं वृत्तान्तं समाचख्यौ मल्ली चैवमवर्णयत् ।।११४ ।। अशेषजगदाकाशशशिलेखा वराङ्गना । मल्लिं विना क्वचित् कापि नास्ति नाभून्न भाविनी ॥ ११५ ॥ यस्ता कन्यां समालोक्यालोकयेदपरामपि । महानीलमणिं दृष्ट्वा काचखण्डं स पश्यति ॥ ११६ ॥ रूपेण लवणिम्ना च गत्या चान्यैश्च चेष्टितैः । सैवैका योषितां धुर्या सरितामिव जाह्नवी ॥ ११७ ॥ इति तद्वर्णनं कृत्वा स चित्रकरपुङ्गवः । आकृष्य चित्रफलकं चित्रस्थां तामदर्शयत् ।। ११८ ॥ दृष्ट्वा तां विस्मितः पूर्वस्नेहादुत्कण्ठितश्च सः । प्रेषीत्तद्याचनायोपकुम्भराजं स्वपूरुषम् ॥ ११९ ।। इतोऽभिचन्द्रजीवोऽपि वैजयन्तात्परिच्युतः । काम्पील्यनगरे नाम्ना जितशत्रुर्नृपोऽभवत् ॥ १२० ॥ धारिणीप्रमुखं राज्ञीसहस्रं तस्य चाभवत् । पुण्याकृष्टं देवलोकादृन्दमप्सरसामिव ।। १२१ ॥ इतश्च मिथिलापुर्यां चोक्षा नाम विचक्षणा । एका परिव्राजिकाख्याद्राजेश्वरगृहेष्विति ।। १२२ ।। दानमूलः सदा धर्मस्तथा तीर्थाभिषेकजः । स्वर्गापवर्गयोर्हेतुरिति नस्तत्त्वतो वचः ॥ १२३ ॥ धर्मे प्रवर्तयन्त्यस्मिन् पौराजानपदानपि । विहरन्त्यन्यदाभ्यागात् सदने मल्ल्यधिष्ठिते ॥ १२४ ।। १ छित्त्वा । २ संदंशः स्यात्कङ्कमुख इत्यभिधानचिन्तामणिः लोके 'चीपीयो' इति ख्यातः ।३ लावण्येन । ४ निष्कास्य । ५ राज्ञामीश्वराणां धनिकानां च गहेष ।
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि| नाथजिनचरितम् ।
FARRIBRARSHAS
मल्लिकुमारीवर्णन दूतप्रेषणं च ।
||६२॥
SAS