________________
त्रिषष्टि
शलाकापुरुषचरिते ॥६१ ॥
मल्लेस्तत्कुण्डलद्वन्द्वं दिव्यं विजघटेऽन्यदा । राज्ञादिष्टाः स्वर्णकारास्तस्य सङ्घट्टनाय च ॥ ९८ ॥ वयं दिव्यमिदं देव न सङ्घट्टयितुं क्षमाः । इत्युक्तवन्तस्ते पुर्या राज्ञा निर्वासिताः क्रुधा ।। ९९ ।। तेच वाराणसीमेयुः शङ्खाय च महीभुजे । तदशेषं समाचख्युरात्मनिर्वासकारणम् ।। १०० ।। कुण्डलप्रक्रमायातं मल्ले रूपं तदद्भुतम् । राज्ञोऽग्रे वर्णयामासुर्दृष्ट्वादूनतरं तु ते ।। १०१ ।। तस्या मुखस्य शशभृदोष्ठयोर्बिम्बिकाफलम् । कण्ठदेशस्य कम्बुश्च दोष्णोर्बिसलतापि च ।। १०२ ।। मध्यस्य पविमध्यं च तथोर्वोः करिणः करः । नाभेश्च सरिदावर्तो जघनस्य च दर्पणः ।। १०३ ॥ जङ्घयोश्च मृगीजङ्घा पाणिपादस्य पङ्कजम् । उपमेयतया जज्ञे यदन्यत्रोपमानभाक् ॥ १०४ ॥
I
॥ त्रिभिर्विशेषकम् ॥
पूर्वस्नेहानुबन्धेन तद्रूपाकर्णनेन च । कुम्भादर्थयितुं मल्लीं शो दूतमथादिशत् ।। १०५ ॥ जीवो वैश्रवणस्यापि वैजयन्तात् परिच्युतः । अदीनशत्रुर्नाम्नाभून्नृपतिर्हस्तिनापुरे ॥ १०६ ॥ तश्च मल्लेरनुज मल्ल नाम कुतूहलात् । अकारयच्चित्रकरैश्चित्रितां चित्रशालिकाम् ॥ १०७ ॥ चित्रीयमाणश्चित्रेण तेष्वेकश्चित्रकृद्वरः । एकाङ्गदर्शनात्तादृक्सर्वाङ्गलेख्यलब्धिमान् ।। १०८ ।। अन्तर्जवनिकं मल्लेः पादाङ्गुष्ठं निरीक्ष्य सः । सर्वाङ्गोपाङ्गसहितं यथावद्रूपमालिखत् ॥ १०९ ॥ तत्र च क्रीडितुं मल्लो गतः प्रेक्ष्य च चित्रगाम् । मल्लीं साक्षान्मन्यमानो लज्जयापासरद्द्द्रुतम् ॥ ११० ॥
१ बभञ्जे । २ निष्कासिताः । ३ अतिशयेनादूनं सुन्दरम् । ४ कण्ठभागस्य । ५ मध्यदेशः कटिभागः । ६ अन्यस्त्रीषु पूर्वोक्ताश्चन्द्रादय उपमानतां प्राप्नुवन्ति अस्यां तु उपमेयतामित्यर्थः । ७ मल्लीशब्दो दीर्घान्तोऽपि प्रयुक्तः संज्ञात्वात् ।
षष्ठं पर्व षष्ठः सर्गः श्रीमलि नाथजिनचरितम् ।
मल्लिकुमारीवर्णनं दूतप्रेषणं च ।
।।६१ ।।