________________
त्रिषष्टिशलाका
पुरुषचरिते ॥६०॥
तस्या लावण्यपूरश्चेत्तदलं जाह्नवीजलैः । तस्याश्च यदि रूप श्रीस्तदूरे सुरयोषितः ॥ ८४ ॥ वृथैव नैत्राणि नृणां न यैः सा देव दृश्यते । किं हंसैः पद्मिनीं स्मेरां ये न पश्यन्ति जातुचित् ॥ ८५ ॥ चन्द्रच्छायनरेन्द्रोऽपि प्राग्जन्मस्नेहयोगतः । मल्लिं वरीतुं कुम्भाय प्राहिणोद्भूतमुत्तमम् ॥ ८६ ॥ इतश्च पूरणात्मापि वैजयन्तात् परिच्युतः । बभूव पुर्यां श्रावस्त्यां रुक्मी नाम महीपतिः ।। ८७ ।। तस्यासीद्धारणीपल्यां सुबाहुर्नाम कन्यका । रूपातिशयसम्पन्ना पन्नगेन्द्रवधूरिव ॥ ८८ ॥ भूपतेः सार्तिवाल्लभ्यात्परिवारेण सादरम् । विशेषमज्जनविधिं चतुर्मास्याकार्यत ॥ ८९ ॥ अन्तःपुरेणापरेद्युः स्नपिता सा विशेषतः । आमुक्तदिव्यालङ्कारा प्रणन्तुं पितरं ययौ ॥ ९० ॥ तां पितोत्सङ्गमारोप्य सौविदल्लमभाषत । कन्याया मज्जनविधिः किमीदृक् क्वचिदीक्षितः ।। ९१ । सोऽप्याख्यद्भवदादेशाद्गतेन मिथिलां मया । आयुर्ग्रन्थौ कुम्भपुत्र्या मल्लेरधिकमीक्षितः ।। ९२ ।। अदृष्टप्रतिरूपं च तस्या रूपमपि प्रभो । कथ्यमानमसंभाव्यं प्रत्येतव्यं तु मद्गिरा ।। ९३ ।। अदृष्टपूर्वं स्त्रीरत्नं मम तद्दृष्टपूर्विणः । अन्यस्त्रीवर्णने जिह्वा मौनव्रतमशिश्रियत् ॥ ९४ ॥ तस्याग्रे विभान्त्यन्यास्तन्निर्माल्योपमाः स्त्रियः । पुरः कल्पलताया हि सहकारलताः कियत् ।। ९५ ।। श्रुत्वा जातानुरागेण सद्यो राज्ञापि रुक्मिणा । दूतः प्रैष्यत कुम्भाय मल्लिमार्गणहेतवे ॥ ९६ ॥ इतश्च वसुजीवोऽपि वैजयन्तात् परिच्युतः । जज्ञे वाराणसीपुर्यां शङ्खो नामावनीपतिः ।। ९७ ।।
१ गङ्गाजलैः । प्रफुल्लाम् । ३ सर्पेन्द्रवधूः । ४ अतिवल्लभत्वात् । ५ आमुक्ता धृता दिव्यालङ्कारा यया सा । ६ अन्तःपुरचरं नपुंसकपुरुषम् । ७ अदृष्टं प्रतिरूपं प्रतिकृतिर्यस्य तत् । ८ विश्वसनीयम् ।
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि नाथजिन
चरितम् ।
मल्लिकुमारीवर्णनं
दूतप्रेषणं च ।
॥६०॥