________________
त्रिषष्टिशलाका
पुरुषचरिते
॥५९॥
I
अन्यसमो नास्ति श्रावकः कश्चिदप्यहो । इति प्रशंसां विदधे शक्रो मध्येसभं तदा ।। ६९ ।। ततो मात्सर्यवानेको देवः कोऽप्येत्य सागरे । औत्पातिकमरुन्मेघाडम्बरं विदधे क्षणात् ॥ ७० ॥ पोतभङ्गभयात् सद्यो क्षुभ्यत्सांयात्रिका भृशम् । ऐच्छन्नभीष्टदेवेभ्य उपयाचितकानि च ।। ७१ ।। इतो विघ्नान्मृतिश्चेन्मे तदानशनमस्त्विति । प्रत्याख्याय समाधिस्थस्तस्थावर्हन्नयः पुनः ।। ७२ । रक्षोरूपं विकृत्योचे स देवो नभसि स्थितः । अर्हन्नयार्हतं धर्मं जहीहि कुरु मद्वचः ॥ ७३ ॥ नो चेदमुं स्फोटयित्वा पोतं घटकपालवत् । त्वां यादसां भोजनसात् करिष्ये सपरिच्छेदम् ॥ ७४ ॥ तथाप्यचलिते धर्मात्तस्मिन् देवः स विस्मितः । चकार क्षमणां शक्रप्रशंसां तां जगाद च ।। ७५ ।। तस्मै च कुण्डलद्वन्द्वे दिव्ये दत्वा मनोरमे । घोरं च मेघवातादि संहृत्य स तिरोदधे ॥ ७६ ॥ क्रमेणार्हन्नयोऽप्यब्धेस्तीरोर्व्यामुत्ततार सः । अशेषं भाण्डमादाय ययौ च मिथिलापुरीम् ॥ ७७ ॥ एकं च कुम्भराजस्योपायने कुण्डलद्वयम् । अर्हन्नयो यथार्हज्ञश्चकारोदारमानसः ॥ ७८ ॥ तदैव कुम्भराजोऽपि दुहित्रे मल्लये ददौ । अर्हन्नयं नयज्ञस्तं सत्कृत्य विससर्ज च ॥ ७९ ॥ विक्रीतक्रीतभाण्डोऽथ सोऽगाच्चम्पामकम्पधीः । ददौ च चन्द्रच्छायाय द्वितीयं कुण्डलद्वयम् ॥ ८० ॥ राजा पप्रच्छ भोः श्रेष्ठिन् कुतोऽदः कुण्डलद्वयम् । सोऽप्याख्यत् कुण्डलप्राप्तिकथामवितथां तथा ॥ ८१ ॥ तादृक्षापरताडङ्कद्वयदानप्रसङ्गत्तः । स इत्यवर्णन्मल्ल्या रूपोत्कर्षं विशेषतः ।। ८२ ।। तस्याश्चेदुद्यतं वक्त्रं तदस्तं यातु चन्द्रमाः । यदि द्युतिस्तदङ्गस्य कृतं मरकतेन तत् ॥ ८३ ॥
T
१ प्राभृते । २ यथार्हं यथायोग्यं जानातीति तथा । ३ पूर्वं विक्रीतानि पश्चात् क्रीतानि च भाण्डानि येन सः ।
%
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि नाथजिन
चरितम् ।
मल्लिकुमारीवर्णनं
दूतप्रेषणं च ।
॥५९॥