________________
त्रिषष्टिशलाकापुरुषचरिते
॥५८॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
इतश्चाचलजीवोऽपि वैजयन्तात्परिच्युतः । अभूद्भरतसाकेते प्रतिबुद्ध्यभिधो नृपः ।। ५४ ।। तस्य पद्मावती नाम साक्षात्पनेव रूपतः । बभूव प्रेयसी सर्वान्तःपुरस्त्रीशिरोमणिः ॥ ५५ ॥ इतश्च नगरे तस्मिन्नशान्यां नागवेश्मनि । अतिष्ठन्नागप्रतिमा उपयाचितपूरका ।। ५६ ॥ देवी पद्मावती तासां यात्रायै सान्यदा नृपम् । आपप्रच्छे प्रतिबुद्धिं सोऽपि तामन्वमन्यत ।। ५७ ॥ तया पुष्पादि सम्पाद्य प्रतिबुद्धिरपि स्वयम् । जगाम यात्रादिवसेऽधिनागप्रतिमागृहम् ।। ५८ ॥ पुष्पमण्डपिकां पुष्पमुद्गरं स्वां प्रियामपि । प्रेक्ष्येत्यूचे प्रतिबुद्धिः स्वबुद्धिं सचिवोत्तमम् ।। ५९ ।। त्वमस्मत्प्रेषणे राज्ञामगा वेश्मस्वनेकशः । स्त्रीरत्नमीदृक् कुसुममुद्रश्च किमीक्षितः ।।६०॥ स्वबुद्धिरभ्यधादेवं त्वदादेशान्मयेयुषा । अन्तिके कुम्भभूपस्य दृष्य मल्लीति तत्सुता ।। ६१ ।। तस्याः स्त्रीरत्नमुख्याया आयुर्ग्रन्थो विधीयते । स पुष्पमुद्गरः कोऽपि यादृक् स्वर्गेऽप्यसम्भवी ॥ २ ॥ स्त्रीरत्नं चक्रिणो यच्च स्मरपत्नी च या रतिः । शच्याद्याः स्वःस्त्रियो याश्च तदग्रे तास्तृणोपमाः ॥६३ ॥ अप्येकवारं ददृशे येन सा कुम्भराजसूः । सुधारसास्वादमिव तद्रूपं विस्मरेन्न सः ॥ ६४ ।। मल्लेः प्रतिकृति री न मर्येषु सुरेषु च । तस्या हि रूपमद्वैतं वाचामपि न गोचरः ।। ६५ ।। प्रतिबुद्धिरपि सद्यः पूर्वजन्मानुरागतः । दूतं प्रेषीत्तां वरीतुं कुम्भराजान्तिके निजम् ।। ६६ ॥ इतो धरणजीवोऽपि वैजयन्तात् परिच्युतः । चम्पापुर्यामभूच्चन्द्रच्छायो नाम महीपतिः ॥ ७ ॥ तस्यां पूर्यां च वास्तव्यः श्रावकोऽर्हन्नयाभिधः । अम्भोधियात्रामकरोत् पोतारूढो वणिज्यया ।।६८ ॥ १ इच्छितपूरका । २ तया पद्मावत्या सह । ३ पुष्पगुच्छम् । ४ गतेन । ५ आयुःसूचिकायां ग्रन्थिरूपरेखायां ।
मल्लिकुमारीवर्णनं दूतप्रेषणं च ।
&
५८॥