________________
त्रिषष्टिशलाका
पुरुषचरिते
114611
एकोनविंशमर्हन्तमाश्चर्यं कुम्भलाञ्छनाम् । नीत्विषं सर्वशुभलक्षणां सुषुवे च सा ।। ४० ।।
॥ युग्मम् ॥ उपेत्य दिक्कुमार्योऽस्याः सूतिकर्माणि चक्रिरे । मेरुमूर्ध्नि च नीत्वा तामिन्द्राश्च स्नपनं व्यधात् ॥ ४१ ॥ स्नपनानन्तरं शक्रस्तां विलिप्यार्च्य च स्वयम् । उत्तार्यारात्रिकं चेति भक्तिनिर्भरमस्तवीत् ॥ ४२ ॥ ज्ञानत्रयनिधानाय प्रधानाय जगत्त्रये । एकोनविंशतितमायार्हते ते नमो नमः ॥ ४३ ॥ दिष्ट्या त्वद्दर्शनेनानुगृहीतोऽस्मि चिरादहम् । सामान्यपुण्यैर्न ह्यर्हन् देवः साक्षन्निरीक्ष्यते ॥ ४४ ॥ देवानामद्य देवत्वं चरितार्थं चिरादभूत् । तव देवाधिदेवस्य जन्मोत्सवनिरीक्षणात् ।। ४५ ।। एकतो ऽच्युतनाथस्य प्राणिमात्रस्य चान्यतः । समानुग्रहबुद्धे त्वं पाहि नः पततो भवे ॥ ४६ ॥ अस्मिन्मेरुगिरौ धात्र्याः सुवर्णमुकुटायते । इन्द्रनील इव न्यस्ता त्वमतीव विराजसे ।। ४७ । स्मरणेनापि मोक्षायानीहमानस्य जायसे । दृष्ट्वा स्तुत्वा याच्यसे किं ततोऽप्यभ्यधिकं फलम् ॥ ४८ ॥ धर्माण्येकत्र सर्वाणि तव चैकत्र दर्शनम् । फलाप्तिसाधकत्वेन द्वितीयमतिरिच्यते ।। ४९ ।। नेन्द्रत्वे नाहमिन्द्रत्वे मन्ये मोक्षेऽपि नो तथा । यथा सुखं स्याल्लुठतः पुरस्त्वत्पादपद्मयोः ॥ ५० ॥ स्तुत्वैवं शक्र एकोनविंशमर्हन्तमुच्चकैः । नीत्वा च मिथिलापुर्याममुचन्मातृसन्निधौ । ५१ ।। गर्भस्थायां तत्र मातुर्यन्माल्यस्वापदोहदः । जज्ञे तदकरोत्तस्या नाम मल्लीति भूपतिः ।। ५२ ।। धात्रीभिरिन्द्रायुक्ताभिः पञ्चभिः प्रतिवासरम् । पुष्पमिव लाल्यमाना वृद्धिमाप क्रमेण सा ।। ५३ ॥ १ अनिच्छाः । २ तव दर्शनम् ।
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि नाथजिनचरितम् ।
जन्मोत्सवः ।
114011