________________
त्रिषष्टिशलाकापुरुषचरिते
॥७२॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
RAHARASHRSHAHARA
मल्लिपादौ नमस्कृत्य देवराजादयः सुराः । कुम्भराजादयो भूपाः स्थानं निजनिजं ययुः ॥ २५० ॥ तत्तीर्थजन्मा कुबेरयक्ष इन्द्रायुधधुतिः । चतुर्मुखो गजरथश्चतुर्भिर्दक्षिणैर्भुजैः ।। २५१ ।। वरदेन पशुशूलभृयामभयदेन च । वामैर्बीजपूरशक्तिमुद्गरकाक्षसूत्रिभिः ।। २५२ ॥ तत्तीर्थभूश्च वैरोट्या कृष्णाङ्गी कमलासना । भान्ती दोभ्या दक्षिणाभ्यां वरदेनाक्षसूत्रिणा ।। २५३ ॥ मातुलिङ्गशक्तिभृद्भ्यां वामदोर्त्यां च शोभिता । श्रीमल्लेरर्हतोऽभूतामुभे शासनदेवते ।। २५४ ।। ततः स्थानादथान्यत्र ग्रामाकरपुरादिषु । भव्यलोकावबोधाय विजहार महीं प्रभुः ।। २५५ ।। चत्वारिंशत्सहस्राणि श्रमणानां महात्मनाम् । सहस्राः पञ्चपञ्चाशदार्यिकाणां तपोजुषाम् ।। २५६ ।। चतुर्दशपूर्वभृतां साष्टषष्टिश्च षट्शती । अवधिज्ञानयुक्तानां द्वाविंशतिशती पुनः ।। २५७ ।। मनोविदां सप्तदशशती पञ्चाशदन्विता । केवलज्ञानधराणां द्वाविंशतिशती पुनः ।। २५८ ।। जातवैक्रियलब्धीनां त्रिसहस्री शतोनिता । उत्पन्नवादलब्धीनां चतुर्दश शतानि च ।। २५९ ॥ श्रावकाणां लक्षमेकं सत्र्यशीतिसहस्रकम् । श्राविकाणां त्रिलक्षी च ससप्ततिसहस्रिका ।। २६० ॥ संवत्सरशतन्यूनां पञ्चपञ्चाशतं प्रभोः । समासहस्रान् विहर्तुः परिवारो ह्यसावभूत् ।। २६१ ।। सम्मेतादि मल्लिरगाच्चक्रे चानशनं समम् । साध्वीनामथ साधूनां पञ्चशत्या पृथक् पृथक् ॥ २६२ ।। मासान्ते फाल्गुनशुद्धदशम्यां याम्यभे विभुः । निर्वाणमासदत् सार्धं साध्वीभिः साधुभिश्च तैः ।। २६३ ।।
परिवारः ।
॥७२॥
१ इन्द्रधनुरिव कान्तिर्यस्य सः । २ शोभमाना ।३ शतेन न्यूना।