________________
त्रिषष्टिशलाकापुरुषचरिते
॥७३॥
कौमारे व्रतपर्याये चायुमल्लिजिनेशितुः । वर्षाणां पञ्चपञ्चाशत्सहस्राण्यभवन् विभोः ।। २६४ ।। अरनाथस्य निर्वाणाच्छ्रीमल्लिजिननिर्वृतिः । कोटीसहस्रे वर्षाणां समतिक्रान्तवत्यभूत् ।। २६५ ।।
तत्कालमुपेत्य सर्वतोप्यमरेन्द्रैरमरैश्च कोटिशः । निर्वाणमहोत्सवः प्रभोः श्रीमल्लेर्विदधे यथाविधि ।। २६६ ।।
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
*
*
*
इत्याचार्यश्रीहेमचन्द्रविरिचते त्रिषधिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्री मल्लिनाथचरितवर्णनो नाम
षष्ठः सर्गः ।
निर्वाणोत्सवः ।
*
*
*
॥७३॥