Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 487
________________ त्रिषष्टिशलाकापुरुषचरिते ॥७०॥ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् । दुर्ध्यानान्यन्यध्यानानि भवद्ध्यानं विना खलु । यैरात्मा बध्यते बाढं निजैलूंतेव तन्तुभिः ।। २२२ ।। कथाश्च दुःकथा एव भवद्गुणकथां विना । यकाभिस्तित्तिरिरिव वाग्भिर्विपदमश्नुते ।। २२३ ।। त्वत्पादपद्मसेवायाः प्रभावेण जगद्गुरो । भवच्छेदोऽस्तु यद्वास्तु त्वयि भक्तिर्भवे भवे ।। २२४ ॥ एवं स्तुत्वा विरतयोरमरेन्द्रनरेन्द्रयोः । श्रोतुं चोत्कण्ठिते सङ्घ श्रीमल्लिर्देशनां व्यधात् ।। २२५ ॥ स्वतोऽप्यपारः संसारो वर्धते च विशेषतः । रागादिना पूर्णमासीदिनेनेव सरित्पतिः ॥ २२६ ।। अमन्दानन्दजनके साम्यवारिणि मज्जताम् । जायते सहसा पुंसां रागद्वेषमलक्षयः ।। २२७ ॥ प्रतिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ।। २२८ ॥ कर्मजीवं च संश्लिष्टं परिज्ञानात्मनिश्चयः । विभिन्नीकुरुते साधुः सामायिकशलाकया ।। २२९ ।। रागादिध्वान्तविध्वंसे कृते सामायिकांशुना । स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः ।। २३० ।। स्निह्यन्ति जन्तवो नित्यवैरिणोऽपि परस्परम् । अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः ।। २३१ ॥ चेतनाचेतनै वरिष्यनिष्टतया स्थितैः । न मुह्यन्ति मनो यस्य तस्य साम्यं प्रचक्ष्यते ॥२३२ ।। गोशीर्षचन्दनालेपे वासिच्छेदे च बाहयोः । अभिन्ना चित्तवृत्तिश्चेत्तदा साम्यमनुत्तमम् ।। २३३ ॥ अभिधेतरि च प्रीते रोषान्धे चातिशप्तरि । यस्याविशेषणं चेतः स साम्यमवगाहते ॥२३४ ।। हूयते न जप्यते न दीयते वा न किञ्चन । अहो अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ।। २३५ ॥ १ ऊर्णनाभ इव । २ परिज्ञानेनात्मनो निश्चयो यस्य स आत्मज्ञानीत्यर्थः । ३ खड्गेन छेदे सति । ४ हस्तवाची बाहाशब्दोऽप्यस्ति । ५ स्तुतिं कुर्वति । ६ निन्दां कुर्वति । ७ विना मूल्येन क्रीता । देशना । I७०॥

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524