Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 485
________________ त्रिषष्टिशलाकापुरुषचरिते ॥६८॥ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् । मूत्रैकस्रोतसः श्लेष्मदृतेर्दुर्गन्धधारिणः । किं पुरस्रोतस इव सारमस्ति मनागपि ॥ १९३ ॥ ॥युग्मम् ॥ अत्र संस्कारहेतुश्च कर्पूरादि सुगन्ध्यपि । मलसात् स्याल्लवणसात् सुधावृष्टिरिवोषरे ॥ १९४ ।। बहिरन्तश्च बीभत्से कथंकारमिहाङ्गके । अङ्गानुरागं कुर्वन्तु मनागपि विवेकिनः ।। १९५ ।। इतो भवे तृतीयेऽस्मिन् यद्भवद्भिर्मया सह । तपः प्रव्रजितैश्चक्रे मुग्धाः स्मरत तन्न किम् ।। १९६ ।। मल्लीवचो विमृशतां तत्तेषां पृथिवीभुजाम् । जातिस्मरणमुत्पेदे किं स्यान्नार्हदनुग्रहात् ।। १९७ ।। ततो जालकपाटानि श्रीमल्लिरुदघाटयत् । ते चाभ्युपेत्य षडपि प्रबुद्धा एवमब्रुवन् ।। १९८ ॥ स्मरामो यद्भवे पूर्वे सप्तापि सुहृदो वयम् । संभूय कृतसङ्केत्तास्तपस्तीव्रमकृष्महि ।।१९९ ।। बोधिता स्मस्त्वया साधु नरकात्साधु रक्षिताः । आदिशातः परं कृत्यं गुरुस्त्वमसि नः प्रभो ॥ २०० ॥ प्रव्रज्या समये ग्राह्येत्युदीर्य विससर्ज तान् । षडपि मापतीन् मल्लिर्जग्मुः स्वं स्वं पुरं च ते ।। २०१ ।। तीर्थं प्रवर्तयेत्युक्ते तदा लोकान्तिकामरैः । मल्ल्यदाद्वार्षिकं दानं पूर्णार्थ जृम्भकामरैः ।। २०२ ।। जन्मतोऽब्दशते पूर्णे पञ्चविंशधनून्नतिः । कुम्भराजसुरेन्द्राद्यैः कृतनिष्क्रमणोत्सवा ।। २०३ ॥ जयन्तीनामशिबिकारत्नमारुह्य मल्ल्यथ । सहस्राम्रवणं नाम जगामोपवनोत्तमम् ।। २०४ ।। कृष्णेक्षुवाटैरभ्युद्यत्कृष्णपक्षमिव क्वचित् । उच्छुक्लपक्षमिव च क्वचित्पुण्ड्रेक्षुवाटकैः ।। २०५ ।। नागरंगीपक्वफलैः शोणाश्मभिरिवाश्चितम् । राजमानं मरुचकर्नीलबद्धमिवाभितः ।। २०६ ॥ १ दृतिः पात्रविशेषः । २ विचारयताम् । ३ श्वेतेावाटैः । ४ शोणमणिभिः । पूर्वभवकथनम् । ॥६८॥

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524