Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 483
________________ त्रिषष्टिशलाकापुरुषचरिते ॥६६॥ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् । इत्यूचे पञ्चमेनापि यद्धास्तिनपुराधिपः । हस्तिमल्लो महास्थाम्ना लघुहस्तो महाभुजः ॥ १६५ ॥ अनेकरणनियूंढो व्यूढोरस्कः सुधीर्युवा । प्ररोहणः कीर्तिवल्लेर्गुणरत्नैकरोहणः ॥ १६६ ॥ दीनानाथसमुद्धारोऽदीनशत्रुर्महीपतिः । कन्यां मार्गति मल्ली ते विदेहाधीश देहि ताम् ।। १६७ ॥ षष्ठेनापीत्यभिदधे यत्काम्पील्यपुराधिपः । अकम्पनीयो रिपुभिः कुञ्जरैरिव पर्वतः ॥ १६८ ॥ शोभितोऽनल्पसेनाभिर्नदीभिरिव सागरः । सेनानीभिः सुनासीर इवाप्रतिघशक्तिभिः ।। १६९ ।। जितशत्रुर्जिताशेषशत्रुर्मद्वचसा नृपः । तव कन्यामर्थयते दीयतामविलम्बितम् ।। १७० ।। कुम्भराजो जगादैवं के तु ते बहुमानिनः । अप्रार्थितप्रार्थका रे मूढाः पौर्थिवपाशनाः ।। १७१ ॥ जगत्त्रयशिरोरत्नं कन्यारत्नमिदं हि नः । अपि शक्रादिदेवानां परिणेतुं न योग्यता ।। १७२ ।। मनोरथो भवन्नाथैर्वृथा चक्रे दुराशयैः । दूता वराकास्तद्यात निर्यात नगरान्मम ।। १७३ ।। एवं ते निकृता राज्ञा गत्वा स्वस्वामिनां द्रुतम् । तद्वाचिकमवोचन्त क्रोधानलसमीरणम् ।। १७४ ।। ततः षडपि राजानस्ते समानपराभवाः । दूतान् परस्परं प्रेष्य निश्चिक्युः कुम्भविग्रहम् ॥ १७५ ।। चेलुः षडपि ते वर्षधराद्रय इवौजसा । स्थगयन्तो महीं सैन्यैः प्रापुश्च मिथिलापुरीम् ॥ १७६ ।। प्रवेशनिर्गमद्वारनिवारणविचक्षणाः । तेऽरुन्धन् वेधयित्वा तां चन्दनदुमिवाहयः ॥ १७७ ॥ कुम्भोऽपि तेन रोधेन खिन्नः कतिपयैर्दिनैः । चिन्तापन्नो यावदस्थात्तावन्मल्लिः समाययौ ॥१७८ ॥ उद्विग्न इव किं तात तिष्ठसीति तयोदितः । उद्वेगकारणं तस्या आचख्यौ कुम्भपतिः ॥ १७९ ॥ १ लघुः शीघ्रकारी हस्तो यस्य सः । २ अक्कुरः । ३ इन्द्रः । ४ अप्रार्थ्यस्य प्रार्थयितारः । ५ नृपाघमाः । ६ निर्गच्छत । ७ तिरस्कृताः । दूतनिष्कासनम् । ॥६॥

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524