Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 481
________________ त्रिषष्टिशलाकापुरुषचरिते ॥६४॥ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् । चोक्षा स्मेरमुखीत्यूचे राजन्नन्तःपुरं निजम् । कूपभेकः कूपमिव किमिदं बहु मन्यसे ।१३९ ।। यदस्ति मिथिलापुर्यां कुम्भस्य पृथिवीपतेः । मल्लीति कन्यकारलं चूडारलं मृगीदृशाम् ।। १४० ।। अङ्गुष्ठमात्रकस्यापि श्रीस्तदीयस्य कापि या । न सा त्रिदशकन्यासु नागकन्यासु चेक्ष्यते ॥१४१ ।। संस्थानलक्ष्मीरन्यैव रूपमप्यन्यदेव हि । लावण्यसम्पदन्यैव तस्याः किं चान्यदुच्यते ॥१४२ ।। जितशत्रुस्तदुक्त्यैवं पूर्वस्नेहेन च क्षणात् । तत्प्रार्थनकृते प्रैषीदूतं कुम्भनृपान्तिके ।। १४३ ।। प्राग्जन्मसुहृदां तेषां षण्णां मल्लिमहीभुजाम् । पश्यन्त्यवधिना बोधमशोकवनिकान्तरे ॥१४४ ।। मध्येसौधापवरकं रत्नपीठे मनोहरे । आत्मनः प्रतिमा हैमी पद्मरागकृताधराम् ।। १४५ ।। नीलकेशीमिन्द्रनीलस्फटिकोपललोचनाम् । प्रवालमयहस्ताङ्घिमातालुशुषिरोदराम् ।। १४६ ।। सच्छिद्रां तालुनि तत्र स्वर्णाम्भोजपिधानिकाम् । नितान्तरम्यावयवां कारयित्वा न्यवेशयत् ।। १४७ ।। ॥चतुर्भिः कलापकम् ।। प्रतिमापवरकस्य पुरो भित्तावकारयत् । संजालककपाटानि षड्वाराणि च कुम्भसूः ।। १४८ ।। द्वाराणां च पुरस्तेषां ह्रस्वापवरकांश्च षट् । प्रतिमापृष्ठभित्तौ च सैकं द्वारमकारयत् ।। १४९ ॥ ततः सर्वाहारपिण्डी प्रतिमायास्तु तालुनि । क्षिप्त्वा स्वर्णाम्बुजेनाथ पिधाय बुभुजेऽन्वहम् ।। १५० ॥ इतश्च तेषां युगपत् षण्णामप्यवनीभुजाम् । आययुर्दूतपुरुषा मिथिलानाथसन्निधौ ।। १५१ ॥ १ देहशोभा । २ अपवरको गर्भगृहम् । ३ तालुपर्यन्तं शुषिरं रन्ध्रसहितमुदरं यस्यास्ताम् । ५ जालकपाटसहितानि । सुवर्णप्रतिमायामाहारप्रक्षेपः । ॥६४॥

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524