Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 482
________________ त्रिषष्टिशलाकापुरुषचरिते ॥६५ ॥ ऊचे तत्राद्यादूतेन यत्साकेतपुरेश्वरः । अनेकसामन्तशिरोमार्जिताङ्घ्रिसरोरुहः ।। १५२ ।। महाभुजो महोत्साहो रूपेण मकरध्वजः । निशाकरः सौम्यतया प्रतापेन दिवाकरः ।। १५३ । बृहस्पतिर्धिषणया प्रतिबुद्धिर्महीपतिः । कन्यां ते याचते मल्लीं परिणेतुमनिन्दिताम् ।। १५४ ॥ कन्या ह्यवश्यं दातव्या पित्रान्यस्यापि कस्यचित् । तदेनं तत्प्रदानेन स्वजनं कर्तुमर्हसि ।। १५५ ॥ ऊचे द्वितीयदूतेन यच्चम्पानगरीपतिः । युवा युगायतभुजः पीनस्कन्धः सुलोचनः ।। १५६ ॥ कुलीनश्चतुरः सत्यसङ्गरः सङ्गरोजितः । अधीती सर्वशास्त्रेषु शस्त्रेषु च कृतश्रमः ।। १५७ ।। चन्द्रवच्छायया चन्द्रच्छायो नाम महीपतिः । मल्लीं मार्गयति त्वत्तस्तां तस्मै दातुमर्हसि ।। १५८ ।। तृतीयेनापि जगदे यच्छ्रावस्तीपुरीश्वरः । चिन्तामणिः प्रणयिनां क्षत्रियाणां शिरोमणिः ।। १५९ ॥ शरण्यः शरणेच्छूनां वरेण्यो वीर्यशालिनाम् । क्रीडागारं जयश्रीणामुद्यानं गुणशाखिनाम् ।। १६० । रुक्मी नाम महीपालस्तव कन्यामभीप्सति । विधेद्युचितयोर्योगमुचितज्ञोऽसि पार्थिव ।। १६१ ।। तुर्येणाप्यभ्यधाय्येवं यत्काशीनगरीश्वरः । अद्भुतेनेश्वरत्वेन जितपुण्यजनेश्वरः ।। १६२ ।। वाग्मी सौन्दर्यकन्दर्पो दर्पच्छित् परिपन्थिनाम् । सदाचारपथे पान्थः शासने पाकशासनः ।। १६३ ।। शङ्खच्छेदोज्वलयशाः शङ्खो नाम महीपतिः । त्वत्तः प्रार्थयते कन्यां प्रतिपद्यस्व तन्नृप ॥ १६४ ॥ १ युगवदायती भुजौ यस्य सः । २ सत्यप्रतिज्ञः । ३ युद्धे ऊर्जितः । ४ अधीतमनेनेति । ५ कान्त्या । ६ गुणा एव वृक्षास्तेषाम् । ७ जितः पुण्यजनेश्वरः कुबेरो येन सः । ८ शङ्खखण्डवदुज्ज्वलं यशो यस्य सः । षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि— नाथजिनचरितम् । कन्याया - चनम् । ॥६५॥

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524